________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
MANMOHAMMERG
पक्खचउम्मासवच्छरजावज्जीवाणुगामिरूवो उ ॥ न खलु विसेसो अविरय तिरियगई पसंगाओ ॥५॥ जावजीवमणंता मिच्छदिट्ठी कहं लभे सम्मत्तं ॥ देसजइणो न कहवा मणुयाउ य वद्धजोगा उ ॥६॥ व्याख्या-'पक्षम्' अर्धमासं 'चतुर्मासं' चतुरो मासान् 'वत्सरं वर्ष 'यावजीवम्' आजन्म, अनुगच्छन्ति उदयद्वारेण प्राणिनम् अनुसरन्ति, 'अनुगामिनः' भावप्रधानत्वाच निर्देशस्य अनुगामित्वमित्यर्थः, तेन तद् रूपस्तल्लक्षणः देवगत्यादिप्राप्तिपर्यन्तः, तुरप्यर्थे, नेति निषेधे, खलुरवधारणे, तेन नैव विशेष्यन्ते परस्परं भिद्यन्ते अनेनेति, विशेषो भेदको धर्मः, अस्तीति शेषः, तेना| यमपि विशेषः कषायाणां नास्ति इत्यर्थः, अयंहि कषायोपशमलिङ्गवादिनोऽभिप्रायः यदुत "पक्ख चउम्मासवच्छर जावजीवा| णुगामिणो कमसो देवनरतिरिय नारगगइ साहणहेयवो भणिया" इत्यागमात् पश्चानुपूा चतुर्णामपि संज्वलनादीनां भेदः। | सिध्यति, तथाहि अत्र पक्षादिकालमानेन अमी संज्वलनादय उदयमाना देवनरतिर्यड्नरकगतिहेतवो भणिताः, एवं च सति | दुष्टभाषादिना मा भूत् तद्भेदः तथापि यावजीवभाविखेन नरकगतिहेतुत्वेन अनन्तानुबन्धिनाम् इतरेभ्यो भेदो भविष्यति,8 तथाच तज्ज्ञानात् तदुपशमस्य लिङ्गत्वं समीचीनमिति चेन्न, एवंहि भेदाभ्युपगमे दूषणान्तरप्रसङ्गात् तथाचाह 'अविरयेत्यादि। | विरमति स' सावद्ययोगेभ्यो निवचेते स विरतः, न विरतो अविरतः, एप हि सम्यग्दृष्टिरपि अविरतिहेतुकं दारुणनरकादि दुःखफलं कर्मबन्धं, विरतिफलं च निरर्गलवर्गापवर्गसुखसंसर्ग जानानोऽपि अप्रत्याख्यानोदयाद् विरतिं नाभ्युपेति, ततश्च तस्य अविरतस्य, अविरतसम्यग्दृष्टेः षष्ट्याः प्राकृतवात् लोपः, तिर्यग्गतिप्रसङ्गात् तिर्यग्गतिगमनयोग्यायुर्वन्धप्राप्तेः, भवदभि|हितागमेप्रत्याख्यानकषायोदयस्य तिर्यग्गतिहेतुत्वेन अभिधानात् तस्य च तदुदयभावात् , न चैवमस्ति सम्यग्दृशां नरकाधव
For Private and Personal Use Only