SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie पंचलिंगी बृहद्वृत्तिः लि. ॥८॥ सनं निखिलनिजतनयावतंसमपि अभयकुमारं प्रत्युवाच; यद्येवं ततस्वमपि किमिति तत्र न प्रविष्टः, ततः प्रब्रजिष्याम्यहं किं ममाग्निप्रवेशेन आत्महत्यया इत्यभिधाय असौ भगवत्पार्चे प्रात्राजीदिति ॥ तथा आदिजिनप्रथमश्रावको भरतपतिरपि रणभुविभ्रातुर्बाहुबलिनो वधाय चक्रम् उच्चिक्षेप । ततो बाहुबली कवलीकृतानन्तानुबन्धिकषायोपि सचक्रमेनं, चूरयामि इति चिन्तयामास इति ॥ तदेवं श्रेणिकभरतबाहुबलिना सम्यग्दृष्टितया अनन्तानुबन्धिनाम् उपशमेऽपि अस्ति यथाक्रमं दुष्टवाक्कायम-| नश्चेष्टानां संभव इति, न ताभिरनन्तानुबन्धिनाम् इतरकषायेभ्यो विशेषोपलम्भ इति कथं तदुपशमो लिङ्गं स्यात् ॥ ननु कथं मिथ्यादृष्टिवर्तिनाम् अनन्तानुबन्धिनां सम्यग्दृष्ट्यादिवर्तिभिरप्रत्याख्यानादिकषायैः भेदेऽपि दुर्भाषादिसाम्यम् । इतिचेत् सत्यं, कश्चित् मिथ्यादृष्टिश्चतुर्थस्थानरसपरिणतैस्तीवोदयैरनन्तानुबन्धिभिरप्रत्याख्यानादीन् कषायान् बद्धवान् स च कदाचित् सम्यक्त्वादिगुणस्थानम् अवाप्तवान् तस्य च कथंचित् कारणानुरूपचतुःस्थानरसपरिणताप्रत्याख्यानाद्युदयेऽनन्तानुबन्धिभिः सह दुर्भाषादि साम्यं संभाव्यते इत्यदोषः, न च एष विशेषो नोपलभ्यते इत्येकात्मापत्तिरितिवाच्यम् ? नहि अस्सदादिभियनोपल-18 भ्यते तन्नास्ति, तथा सति भूनिखातनिधानादीनाम् अनुपलम्भमात्रेण विद्यमानानामपि तेषां नाश: स्यात्, अतीन्द्रियदर्शि-16 भिरेव तेषां तथाविधविशेषोपलम्भात् , अत एव अनन्तानुबन्ध्युपशमस्य अज्ञायमानत्वेन अलिङ्गत्वं ब्रूमः, यदिवा आदिमानां कषायाणां "विसेसुत्ति' विश्लेषो विच्छेदः क्षपितत्वेन अपगम इति यावत् सन्नपि श्रेणिकादीनां दुष्टभाषया हेतुभूतया न गम्यः,8 तादृग् दुर्भाषया तेषाम् असदादिभिराधकषायोदयस्यैव अवगतेरित्यर्थः, अतस्तदुपशमस्य कथं लिङ्गसमिति गाथार्थः ॥४॥ सांप्रतम् अनिष्टप्रसङ्गान्तरापादनेन कषायाणां विशेषान्तरप्रत्याचिख्यासया गाथायुगलमाह For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy