SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगीलाप्रकृतेराचं कार्य बुद्धिरतोऽचेतना, कार्यकारणयोस्तादात्म्येन च कारणस्याचैतन्येन कार्यस्यापि अचैतन्यमितिचेन, अस्याः कार्य त्वेऽनित्यत्वेन विनाशात् प्रेत्यभावाद्यनुपपत्या तदसिद्धेः, कथमिति चेदुच्यते-प्राच्यजन्मपरित्यागेन उत्तरजन्मलाभोहि प्रेत्य॥१६२॥ भावः स च पूर्वादृष्टोपग्रहाद् भवति, विनष्टायां च बुद्धौ तद्गतादृष्टस्यापि अवस्थानासंभवात् नहि धर्मिणि असति तदाश्रयाणां धर्माणामवस्थानं संभावयितुमपि शक्यम् , अथ प्राच्यबुद्धिविनाशानन्तरक्षण एव उत्तरबुद्ध्युत्पत्तेस्तद्गतादृष्टोपग्रहात् प्रेत्यभावो टू भविष्यति इति चेन्न, उत्तरबुद्धिवदेव प्रायेणानन्तरसमय एव उत्तरजन्मनोऽपि लाभादुभयोरपि समसमयभावित्वेनाविशेषात् कथं तद्गतादृष्टोपग्रहात् प्रेत्यभावः सिध्येत्, सिध्यतु वा कथचिदसौ तथापि तत्कालोत्पन्नाया बुद्धेर्यमनियमादिकर्मकाण्डं विना धर्माधर्मयोर्निर्माणासामर्थ्य तद्धेतुको तौ कथं तदानीं स्वकार्ये सुखादौ व्याप्रियेयाताम् , अपि च कार्यत्वेन बुद्धेः प्राच्यभवान्त्यक्षणसमसमयमेव प्रध्वंसे तदनन्तरजन्मनि तदहर्जातस्य बालकस्य स्तन्यादी प्रवृत्तिनं भवेत् , तत्कालमेव बुद्धर्ज्ञानादिधर्माष्टकानुत्पादात् रागद्वेषावन्तरेण प्रवृत्तिहेतुप्रयत्नानुत्पत्तेः, ममेदं हितसाधनं तज्जातीयत्वात् प्रागनुभूतवत् , तथा चेदमित्या-18 दिरूपेष्टानुसंधानं विना च रागाधनाविर्भावात् , इह जन्मनि अननुभूतस्य प्रागुक्तप्रतिबन्धस्यास्मृतौ चेष्टानुसंधानानुपपत्तेः, जन्मान्तरानुभूतस्य च प्रतिबन्धस्येह जन्मभाविना बुद्ध्यन्तरेणास्मरणात् , नान्यदृष्टं सरत्यन्य इति वचनात् , सरणे चातिप्रसङ्गात् , नच पुरुषान्तरबुद्धे नादिभिस्तस्य प्रवृत्तिः, अन्यधर्माणामन्यत्राप्रतिसंक्रमेण तदनुपपत्तेः, नच मा भूत् ज्ञानाद्यभावात् बालकस्य प्रवृत्तिरिति वाच्यं, सर्वावस्थासु प्राणिनां ज्ञानादिशून्यलाभावेन प्रवृत्त्यभावायोगात्, अथ पूर्वबुद्धिविध्वंसे तदुत्तरानुत्पत्तिदशायामपि प्रकृतिव्यापारात् बालः प्रवत्स्यति इति चेन्न, तखाः साधारण्येन ज्ञानादिशून्यत्वेन च नियामकखासंभवात् , AAAAAASARAM G*9*EASCHLOSS***** ॥१६॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy