________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandie
AMALANGREECCARRC
ननु बुद्धिविलयेऽपि तद्बासनानुवृत्तेः सर्वमेतदुपपत्स्यत इतिचेत् , किं बुद्धिरेव वासना तद्धर्मो वा, सोऽपि तद्व्यतिरिक्तोऽव्यतिरिक्तो वा, आये यदि बुद्धेविलयः कथमनुवृत्तिः, सा चेत् कथं विलयः बुद्धिवासनयोः पर्यायवेन युगपदनुवृत्तिनिवृत्योर्विरो-13 धात् , द्वितीयोऽपि धर्मिव्यतिरिक्तस्य धर्मस्याऽखीकारात् स्वीकारे वाऽपसिद्धान्तादसङ्गतः, न तृतीयः, धर्मिनिवृत्तौ तदव्यतिरिक्तस्य धर्मस्यापि निवृत्त्याऽनुवृत्तेरभावात् , एवं च सवासनपूर्वबुद्धिविनाशे बीजाभावादुत्तरबुद्ध्यनुत्पादे कः संसरेत् , तथा च कर्तृचाचेतनकार्य च बुद्धितत्त्वमित्यभ्युपगमे बहुव्याहन्येत इत्यसिद्धोऽचेतनकार्यखहेतुः, अथ एतद्दोपभिया नित्या बुद्धिरिप्यते, तर्हि तस्या नित्यखेन आसंसारं प्रवृत्तिखभावतया पुरुषस्यानिर्मोक्षप्रसङ्गः, तद्व्युपहितखरूपतया तस्स खखभावाप्राप्तेः, प्रवृत्तिखभावखेऽपि वासनानुवृत्तिलक्षणाधिकारनिवृत्या बुद्धेरप्रवृत्तेः पुरुषो मोक्ष्यते इतिचेत् , कथं पुनरचेतनया तया आत्मनो | निरधिकारखमवसीयते, खधर्मेण ज्ञानेन इतिचेत्, न, तस्येन्द्रियद्वाराजायमानखेनातीन्द्रियमेतमर्थमवसातुमसामर्थ्यात् , सामर्थे 3 वाऽस्मदादीनामपि अतीन्द्रियार्थसाक्षात्कारप्रसङ्गात् ऐन्द्रियकज्ञानस्य सन्चात् , तस्मात् खस्य निरधिकारखं निश्चेतुं नित्यचैतन्य तस्या अभ्युपेतव्यम् ,एवं चेत्तर्हि संसारावस्थायां नित्यचैतन्यसत्ताविनाभाविज्ञानेच्छादिगुणाधिकरणं बुद्धेरन्यो नित्यात्मैवाऽङ्गीकतव्यः, किमन्तर्गडुना महत्तत्त्वेन निरुपपत्तिकेन, किंच कार्यस्य कारणात्मकखाभ्युपगमे यावद् धर्मजातं कार्ये उपलभ्यते, प्रायः कारणेऽपि तावन्मात्रेण तेन भवितव्यं, नान्यथा तयोस्तत्त्वतस्तादात्म्यं स्यात् , एवं च बुद्धाविव प्रकृतावपि ज्ञानेच्छादयोऽभ्युपेयन्ताम् , एवमस्तु इतिचेत, तर्हि बुद्धिरेवास्तु किं प्रकृत्या तयैव सर्वसाध्यसिद्धेः, बुद्धिकारणलेन सापि इष्यतामितिचेत्, तर्हि कल्पनालाघवाद् बुद्धेरेव नित्यसमभ्युपेहि, एवं च प्रेत्यभावादेरपि अव्याघातेनोपपत्तेः किं प्रकृतिकल्पनया
For Private and Personal Use Only