SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SOURCHASKAROSAROSkeste अपूर्वचेतनस्य च परिणामितयाऽनित्यत्वेनावश्यं तया विनाशात् तदर्थ बुद्ध्यन्तरकल्पनस्यापि अनुपयोगात् , एवं च पूर्वापूर्वचे|तनानामाजवंजवीभावाभावात् यथा क्रममनादिमुक्तत्वापार्थक्ययोरापच्या भव खस्थः, न द्वितीयः, प्रतिबिम्बस्यावास्तवतया बुद्धेर्मयेति अंशस्यापि तथात्वेन स्वप्नानुसंहितादिव तस्माद् वास्तवार्थक्रियाऽनुपपत्तेः, नहि मुखोपरक्तात् दर्पणात् वास्तव्या मुखार्थक्रियायाः संभवः; अपि च न चेतनोपरागवत्वस्य कर्तृत्वेन सह प्रतिबन्धोऽस्ति, येन बुद्धेः परिणामित्वेऽपि तसात्कढेकत्वं सिध्येत् , प्रतिबन्धग्रहणविषयस्य दृष्टान्तस्याभावात् , ननु मा भूत् चेतनोपरागविरह उपाधिः ज्ञानाद्यनाधारत्वमसौ भविष्यति, न खलु घटः परिणामित्वादकर्ता किं नाम ज्ञानाद्यनाधारत्वात् बुद्धिस्तु तदाधारत्वात् की भविष्यति को दोष इति चेन्न, साध्यस्यैव उपाधित्वेनोभावयितुमसङ्गतत्वात् , सर्ववादिभिः प्रायो ज्ञानाद्याधारस्य कर्तृपदवाच्यतया इष्टत्वेन तद| नाधारस्याकर्तृशब्दाभिधेयत्वेनोपगमात् , स्यादेतदेवं यदि कर्तृज्ञानाद्याधारशब्दयोः पर्यायता स्यात् , न चैवं कर्तृपदेनहि | कृतियोगी प्रयत्नवानुच्यते, ज्ञानाद्याधारशब्देन च प्रयत्नव्यतिरिक्ताशेषधर्माधारस्तथा च तद्विपर्ययस्यापि तच्छब्दाभ्यां तथैवा-| भिधेयत्वेनार्थभेदात् ज्ञानाद्यनाधारत्वस्योपाधित्वं दुर्निवारम् , एवं च तदाधारत्वात् परिणामित्वेऽपि महत्तत्त्वस्य कर्तृत्वं दुनिषेधमितिचेत् , न, परस्पराश्रयप्रसङ्गात् ज्ञानाद्याधारत्वप्रतीतौ हि कर्तृत्वप्रतीतिः, तत्प्रतीतौ च ज्ञानाद्याधारखप्रतीतिरिति, नचज्ञाना|धारत्वकृतियोगित्वयोर्व्याप्यव्यापकभावो मुमूर्षादिभिर्व्यभिचारात् तेषां ज्ञानाद्याधारत्वेऽपि कृतियोगासंभवात् तस्मात् नित्यचैतन्यसमुद्रस्यैव नित्यस्पन्दास्तत्तदिन्द्रियार्थसंनिक दुपजायमानास्तत्तदर्थग्राहकत्वेन परिणता आत्मगुणा एव ते ज्ञानभेदाश्चाक्षुषस्पार्शनादिव्यपदेशभाज इमे विजृम्भन्ते, नतु बुद्धिधर्मा इति, अस्तु तर्हि अचेतनकार्यत्वं कर्तुमहत्तत्त्वस्य चैतन्यबाधकम् अचेतनाया हि For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy