________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥१६॥
CASSIC
यः परिणामी सोऽचेतनो यथा घट इति बाधिकानुमानात् कर्तुरचैतन्यसिद्धेः, भ्रान्तः सामानाधिकरण्यानुभव इति चेन्न, महत्तत्त्वस्य कर्तृत्वेऽपि अस्य बाधकस्य तुल्यत्वात् , तथाहि बुद्धितत्त्वमकर्तृ परिणामित्वात् घटवदिति, अथ न परिणामित्वात् घटोऽकर्ता, किन्तु चेतनोपरागविरहात् , बुद्धस्तु तत्सद्भावात् कर्तृत्वं सेत्स्यति, तथा च सोपाधिकत्वादप्रयोजकोऽयं हेतुरिति चेन्न, एवं हि चेतन एव वास्तवा ज्ञानादयः स्वीकर्तव्याः स्युः, तदाधारत्वलक्षणं च कर्तृत्वं तत्रैवाभ्युपेयं भवेत् , कथमिति चेद् उच्यते-यदिहि स्वभावेनैव बुद्धानाधुत्पादने सामर्थ्यमस्ति, तदा किं चेतनोपरागापेक्षया, अथ सत्यामपि स्वरूपशक्तौ | सहकारिशक्तिं विना न कार्योत्पाद इति चेन्न, उपरागस्य सहकारित्वेनापेक्षा भवतामिव सत्यपि आत्मन उपादानत्वेन बुया|दिजननसामर्थ्य इन्द्रियार्थसन्निकर्षादिसहकार्यपेक्षा इति चेत् सत्यं, तत्रहि इन्द्रियार्थसन्निकर्षादेर्वास्तवत्वेन तदपेक्षादात्मनो। युक्ता बुद्ध्याद्युत्पत्तिः, इह तु चेतनोपरागस्यावास्तवत्वात् तदपेक्षा बुद्धितत्त्वात् कथं ज्ञानादयः प्रादुर्भवेयुः, नहि बीजस्याकुरे कर्तव्ये मरीचिकाजलं सहकारिभवितुमर्हति, तस्मात् स्वीकुरु वा पुरुषेण सह बुद्धेर्वास्तवं तादात्म्यसम्बन्ध, परिहर वा है | बुद्धौ तात्त्विकज्ञानाद्युत्पादग्रहं, किं च कोऽयं चेतनोपरागः, किं बुद्धेश्चेतनरूपः परिणाम उत तत्प्रतिबिम्बनं, नाद्यः, सहि किं| | मौलचेतनव्यावृत्त्या आहो तदव्यावृत्त्या न प्रथमः, तदाहि तदर्थमेतावान् प्रयासस्तस्य परस्य सकलतत्त्वमस्तकस्य पुरुष|स्याभावे परार्थत्वानुपपत्त्या प्रवृत्त्यभावेन गुणवतोऽपि बुद्धितत्त्वस्य शरीरस्येवापार्यक्यप्रसङ्गात्, कौटस्थ्यव्याघातात् बुद्धेश्चैतन्यरूपतया प्रवृत्त्यभावेनाहंकारादिसर्गाभावप्रसङ्गाच्च, नापरः, चेतनद्वेतापत्तेः, आपद्यतां को दोष इति चेन्न, बुद्धेश्चेतनतया प्रवृत्तौ मौलचेतनस्य तत्सम्भेदजनितमललेपाभिमानाभावे निरुपाधितया नैय्यायिकदर्शने ईश्वरस्येव अनादिसिद्धत्वप्रसङ्गात् ,
-LRB4%AUSAMACHAR
॥१६॥
For Private and Personal Use Only