________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
।
मुच्यते इति पूर्वपक्षः, तमेनं निरस्यंस्तथा ये च ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदं गवाऽऽगच्छन्ति भूयोऽपि भवं तीर्थ निकारत, इत्यभिदधाना मुक्तस्यापि तीर्थपराभवेन पुनरावृत्तिं मन्यन्ते, तन्मतं च बन्धाभावे पुनरावृत्तेरभावप्रसञ्जनेन संप्रति निराकुर्वन्नाह
वज्झइ पयडी नेव य मुच्चइ य जीवो अइप्पसंगाओ। निस्सेसकम्ममुक्के पुणरागमणं कुओ होइ ॥९५॥
व्याख्या-'बध्यते' कषायादिनिर्वर्तितेन कर्मणा संश्लिप्यते 'प्रकृतिः' प्रधान, नैव चेति च भिन्नक्रमौ तौ च योक्ष्येते, तेन 'मुच्यते च कर्मसम्बन्धाद् वियुज्यते च, 'जीव' पुरुषः, तथा च बध्यते प्रकृतिर्मुच्यते च जीव इति यदुच्यते कापिलैस्तदपि 'नैव' नास्त्येव इत्यर्थः, एवकारेणाऽस्य पक्षस्य अत्यन्ताप्रामाणिकवं सूचयति, तदेवाह, अतिप्रसङ्गात् , अबद्धस्य मुक्त्यभ्युपगमे लोकव्याहारव्यवहारप्रतीतीनां विरोधात् अतिशयेनानिष्टापत्तेरित्यर्थः, एतदुक्तं भवति, यत्तावदुक्तं बुद्धिरचेतना की भोक्त्री
चेत्यादि तन्न, ज्ञानेच्छादीनां कर्तृनियामकत्वेन कर्तुर्ज्ञानाद्याधारखसिद्धिवत् चैतन्यस्यापि तन्नियामकत्वेन कर्तुश्चैतन्याधारस्यापि ६ सिद्धेः, कथं चैतन्यस्य कर्तृनियामकखमितिचेत्, कृतिसामाधिकरण्येनाऽनुभूयमानानां ज्ञानादीनां कर्तृनियामकल|वच्चैतन्यस्यापि तत्सामानाधिकरण्येनानुभूयमानतया तन्नियामकखोपपत्तेः, य एवाहं चेतयामि, स एव करोमि इत्यनुभवात् , चैतन्यपूर्वकत्वात् प्रयत्नापरनामायाः कृतः, भ्रान्तोऽयं प्रत्यक्षानुभव इति चेन्न, बाधकं विनास्य भ्रान्तत्वमसिद्धेः, न ह्यन्धकारादिकारणादुपजातस्य रजौ सर्पप्रत्ययस्य नायं सर्पः किन्तु रज्जुरेषा इत्युत्तरकालिकं बाधिकं प्रमाणमन्तरेण भ्रान्तत्वं निश्चेतुं शक्यते,तथापि वा भ्रान्तत्वे सर्वत्र भ्रान्तत्वापत्न्या भ्रान्ताभ्रान्तविभागानुपपत्तेः, अथ कर्ता अचेतनः परिणामित्वात्
For Private and Personal Use Only