________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रभाव
पंचलिंगी
13 तस्मात् भिन्नानि, एवमेकसिन्नेव मृत्सुवर्णादौ घटकुण्डलादयो विशेषास्तत्तत्सामग्र्या प्रादुर्भवन्त उत्पद्यन्त इत्यभ्युच्यते, कुत
श्चित्कारणात् तिरोभवन्तश्च विनश्यन्तीत्यभिधीयन्ते, नतु असतां तेषामुत्पादः, सतां वा विनाशः, यदाह-'नासतो विद्यते ॥१६॥ भावो नाभावो विद्यते सतः, एवं च न मृदादेस्ते विशेषा भिन्नाः, ननु मूर्त्तत्वप्रमाणोपपन्नत्वादिना व्यक्तेभ्य एवं परिमाणुभ्यो
व्यणुकादिक्रमेण पृथिव्यादिलक्षणकार्योत्पादोपपत्तौ किमव्यक्तप्रकृत्याख्यकारण कल्पनया इति चेन्न, समन्वयादिहेतुभ्यस्तदुपपत्तेः, तथाहि विवादाध्यासिताः सुखदुःखमोहरूपा अव्यक्तहेतुकास्तद्पसमन्वितत्वात् , ये यद्रूपसमन्वितास्ते तद्रूपाऽव्यक्तहेतुका यथा मृत्सुवर्णरूपसमन्विता घटकटकादयो मृत्सुवर्णाव्यक्तहेतुकास्तथा च बुद्ध्यादयो भेदाः सुखदुःखमोहसमन्विता उपलभ्यन्ते तसात् तेऽपि तद्रूपाव्यक्तहेतुकाः, यच्च तदव्यक्तकारणं सा प्रकृतिः, तद्रूपसमन्वितत्वं चेह बुयादीनां सुखाद्यात्मकत्वं | विवक्षितं, न च तत्तेषामसिद्धं यथाक्रम प्रसादोद्वेगरौद्रत्वादीनां तत्कार्याणां तत्रोपलम्भात् , मृदादीनां चाव्यक्तत्वं कार्यस्य घटादेरनाविर्भावावस्था, तदव्यतिरेकात् कारणस्येति, अन्यान्यपि परिमाणादीनि अव्यक्तसाधनानि सर्वगतत्वादि तद्धर्मसाधनानि च सांख्यैर्दर्शितानि तानि च तच्छास्त्रात् स्वयमूहनीयानि, तदुक्तं-भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्ते-18 श्रेत्यादि, तत्र भिन्नानां सारूप्यं समन्वयः, तदेवमस्ति-प्रकृतिस्तत्कार्य बुद्धिश्च सा च तदभिन्ना की पुरुषार्थ प्रवृत्तेः, अत है एव तद्व्यतिरिक्तस्य पुरुषस्यापि सिद्धिः, तथाहि प्रकृतिबुयादयः परार्थाः संहतत्वात् शयनासनावङ्गवत् , संहतत्वं च |बुवादीनां सुखदुःखाद्यात्मकत्वं, परार्थत्वं शयनादीनां च शरीराद्यर्थत्वं, बुयादीनां च तदर्थत्वासंभवात् , पर आत्मा तदर्थ-18 त्वमिह साध्यत्वेनाभिमतं, तस्माद् व्यवस्थितमेतत् प्रकृत्यभिन्ना बुद्धिः, कर्तृत्वात् भोक्तृत्वाच्च बध्यते तद्विवेकदर्शनाच पुरुषो
॥१६॥
For Private and Personal Use Only