________________
Shri Mahavir Jain Aradhana Kendra
पंचलिंगी
॥१५९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सनात्तदुभयायत्तो घटादिगोचरः करोमीत्यध्यवसायो व्यापारावेशः, एवं चाचेतनाया अपि बुद्धेः कर्त्तव्यपदार्थविषयव्यापारोपपत्तेर्घटादिनिष्पत्तिः, तत्रैवंविधव्यापाररूपाया बुद्धेरर्थेन्द्रियसन्निकर्षात् अयं घट इत्यादिरूपोऽर्थाकारः परिणामों ज्ञानं तस्याएव बुद्धेर्ज्ञानेन सह यः पुरुषोपरागस्यावास्तवस्य सम्बन्धश्वेतनोऽहममुं घटमुपलभ इत्याद्याकारो दर्पणप्रतिफलितस्य मुखस्येव तन्मलिनाऽसौ उपलब्धिरिति परस्परभेदोपलम्भान बुद्ध्यादिशब्दानां पर्य्यायत्वम् एवं च ज्ञानवदिच्छाद्वेषप्रयत्नसुखदुःखधर्माधमरूप अपि सप्त भावा बुद्धेरेव धर्माः, तत्सामानाधिकरण्येन प्रतीयमानत्वात् यो यत्सामानाधिकरण्येन प्रतीयते स तस्य धर्मो यथा शुक्लः पट इत्यादौ पटसामानाधिकरण्येन प्रतीयमानः शुक्रो धर्मः पटस्य, प्रतीयते चाहं जानामि इच्छामि प्रयत सुखी दुःखी इत्यादिरूपेण बुद्धिसामानाधिकण्येन ज्ञानादयस्तस्मात् तेऽपि तथेति, ननु कथं बुद्धेरष्टावेव धर्मा ज्ञानादीनां संस्कारेण सह नवानामेव तीर्थिकैरात्मधर्मत्वेन विशेषगुणाख्यया प्रतिपादनात् इति चेन, ज्ञानस्यैव अनभिव्यक्ततयाऽनुवर्त्तमानस्य स्मृतिकारणतयाभ्युपेतत्वेन संस्कारस्य सांख्यैरनभ्युपगमात्, यद्येवं ज्ञानादिशालितया बुद्धिरेव नित्यचैतन्यरूपाऽस्तु, किं पुरुषेण इति चेन्न, परिणामित्वेन तस्या अनित्यतया तद्रूपतानुपपत्तेरिति, एषु च प्रकृतिरविकृतरूपा बुद्ध्यादयस्तु सप्त प्रकृतिविकृत्युभयरूपा, बुद्धिर्हि अहंकारस्य प्रकृतिः प्रकृतेस्तु विकृतिरेवमुत्तरेष्वपि योज्यम्, इन्द्रियादीनि तु षोडशविकृतया एव, यथाक्रम महंकारतन्मात्र कार्यत्वात्, पुरुषस्तु न कस्यापि प्रकृतिर्नापि विकृतिः, तदुक्तम्- मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ १ ॥ एते च बुद्ध्यादयः प्रकृतेर्जायमानत्वात् न ततोऽत्यन्तं भिद्यन्ते त्रैगुण्यादिना एतेषामपि प्रकृत्यात्मकत्वात्, शुक्लैस्तन्त्वादिभिरारब्धस्य पटादेः शुक्लत्वादिदर्शनेन कार्यस्य कार
For Private and Personal Use Only
बृहद्वृत्तिः ५ लि.
॥१५९॥