________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्कर्तृत्वेनाश्रयत्वेऽभोकृत्वे च यमरूप उदासीनोकत च तथा कत्व भावलो.
तदा तस्य स्वखरूपप्रध्वंसेन रूपान्तरापल्या परिणामित्वेन बुद्धिवदनित्यत्वाचेतनत्वादयो दोषाः प्रसजेरनिति द्वितीयश्लोकार्थः, ईश्वरकृष्णेनापि सांख्यसप्तत्यामभिहितं-तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्नेव भवत्युदासीनः॥१॥ यथाऽचेतनं महत्तत्त्वं चेतनसम्बन्धाचेतनमिव प्रतिभाति, तथा पुरुष उदासीनोऽकर्ताऽभोक्तापि कर्तृभोक्तृबुद्विसन्निधेस्तत्तद्रूपः प्रतिभासत इत्यर्थः, ननु चेतनस्याकर्तृत्वेऽभोक्तृत्वे च यमनियमादिकर्मतज्जन्यापूर्वयोरनाश्रयत्वेनाफलत्वात् संसाराभावप्रसङ्ग इति चेन्न, बुद्धेरेव तत्कर्तृत्वेनाश्रयत्वात् तयोः साफल्योपपत्तेः, बुद्धेरेव चादृष्टपरिपाकात् संसारः, |पुरुषस्तु पुष्करपलाशवत् न कर्मतत्फलेन लिप्यते, पुरुषः संसरतीति व्यवहारस्य तु बुद्धिसन्निधेस्तत्रोपाधिकत्वात् , आलोचनं ।
च व्यापार इन्द्रियाणां, मनसस्तु विकल्पः, अभिमानोऽहंकारस्य, कृत्यध्यवसायो बुद्धः, एवं चासाधारणव्यापारभेदेन महदादिसर्गस्योपपत्तिः, प्रकृतेश्च बुद्धिनिर्माणे चरितार्थतया न ततो जगत्सर्गः, महदादिसर्गस्य चायं क्रमः-प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः । तस्मादपि च षोडशकात् पञ्चभ्यः पञ्चभूतानि ॥१॥ इति, ननु कृत्यध्यवसायो बुद्धापार इत्युक्तं, बुद्धेरचेतनत्वेन कृतिविषयस्य घटादेरप्रतिभासात् घटं करोमि इत्याद्यध्यवसायानुपपत्तेः, नहि कुलालवेद्यां घटनिर्माण सामग्रीमजानन् कुविन्दो घटमहं करोमि इत्यध्यवस्पति इति चेन्न, बुद्धेरंशत्रययोगेन तदुपपत्तेः, तथाहि पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेति अंशाः, भवतिहि मया इदं कर्त्तव्यमित्यध्यवसायः, तत्र मयेति पुरुषोपरागो दर्पणमुखयोरिव बुद्धिपुरुषयोमैदाग्रहेण एकखाभिमानादवास्तवः, इदमिति विषयोपरागो, नीलाद्यर्थेन्द्रियसंनिकर्षाद् बुद्धेर्नीलाद्याकारपरिणामोत्पादो, निश्वासाभिहतस्य दर्पणस्येव मलिनिमा तालिका, पुरुषोपरागविषयोपरागाभ्यां जडाया अपि बुद्धेः कृतिविषयस्य घटादेः प्रतिभा
For Private and Personal Use Only