________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्तिा
पंचलिंगी किमर्थ कल्प्यते इति चेन्न, सुषुप्तावस्थायामिन्द्रियादीनां व्यापाराभावेऽपि श्वासप्रश्वासादिसन्तानाविरामात् तद्धेतुत्वेन बुद्धि-
कल्पनोपपत्तेः, तसाद यत् स्वप्नजागरसुषुप्तावस्थासु सततं व्याप्रियते यदधिकरणश्चानुभवस्तेनान्त करणेनानुभवद्वारासंबध्य॥१५८॥ | मानो घटादिरर्थः पुरुषमुपरञ्जयतीति पुरुषो घटादिकमर्थमनुभवति, नतु बुद्धिरित्यादिव्यवहारप्रवर्त्तनद्वारेणासौ निर्व्यापारपुरु-18
पस्वरूपं तिरोधत्ते इत्यर्थः । नन्वेवं पुरुषस्याकर्तृत्वोपगमे पुरुषः कुरुते कर्म स्वकृतस्य च कर्मणः फलमुपभुंक्त इत्यादेर्लोकव्यवहारस्याऽनुपपत्तिप्रसङ्ग इति चेन्न, बुद्ध्यात्मनोभेंदाग्रहात्तदुपपत्तेः, बुद्धिसन्निधौ अकर्त्तर्यभोक्तरि च पुरुषे वर्तमाने बुद्धेभ्रान्तस्य तत्कर्तृभोक्तृप्रत्ययस्योत्पादात्, ननु तथापि बुद्धेरचेतनखे कथमियं चेतना इति प्रत्यय इति चेन्न, चेतनसन्निधेरचेतनाया अपि तस्या भेदाग्रहेण खात्मनि चेतनाभिमानात् , यदाह-"पुरुषोऽविकृतात्मैव स्वनि समचेतनं । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥१॥ विविक्तेदृक् परिणतौ बुद्धौ भोगोऽस्य प्रकल्प्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥२॥ यथा उपाधिर्जपाकुसुमादिः स्वसान्निध्यात् स्फटिकमरक्तरूपमपि रक्ताभासं करोति, तथा पुरुषोऽवि
कृतरूप एवाचेतनं महत्तत्त्वं स्वप्रतिबिम्बात् स्वनिर्भासं चेतनमिव करोति, तेन स्फटिकेऽरक्तेऽपि रक्तत्वाभिमान इव अन्तःकहरणेऽचेतनेऽपि चेतनाभिमान इत्याद्यश्लोकार्थः, विविक्ता विभागेन व्यवस्थिता ईदृक् तत्तदिन्द्रियसन्निकर्षात् तत्तद्विषयाकारा
परिणतिर्यस्याः सा तथोक्ता, तस्यामेवं विधायां बुद्धौ सत्यां पुरुषस्य भोगो लोकेन कल्प्यते, कीदृशः सन्नित्याह-प्रतिबि-
म्बोदयोऽतात्त्विक इत्यर्थः, यथा चन्द्रमसो निर्मले जले प्रतिबिम्बनं, तथा बुद्धेरपि आत्मनि तेन विशिष्टविषयाकारपरिणताया हूँ बुद्धेरेव वास्तवो भोगो नतु आत्मनस्तथापि बुद्धेरात्मनि संक्रान्त्या तस्यासौ व्यवहियते, यदि पुनरात्मनो वास्तवो भोगो भवेत् ।
NAGAR
॥१५॥
For Private and Personal Use Only