SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 554545515 प्रकाशस्वभावखस्स अविच्छिन्नप्रवाहतया प्रवृत्तेस्तत्संबद्धस्यात्मनो भूयोऽपि अनिर्मोक्षप्रसङ्गात् , प्रकृतिप्रवृत्त्यनुपरमेणैव तस्य सोपाधिखात् , अथ माभूत उभयोरपि अनयोर्विषयप्रकाशस्वरूपवं घटादिरेव साक्षात् चैतन्यसंबन्धिस्वभावो भविष्यति इति चेन्न, घटादेः साक्षात्तथाले यावत्सत्त्वं प्रतिभासप्रसङ्गात् , न चैवं व्यवहितविप्रकृष्टादिहेतुभिः सतोऽपि तस्य प्रतिभासाभावात् , | यद्येवं तर्हि घटादिरेव इन्द्रियमात्रप्रणालिकया चैतन्यसम्बन्धोऽस्तु, तथा च इन्द्रियासनिकृष्टस्य तस्य सतोऽपि अप्रतिभासो घटयिष्यते कृतं मनोऽहंकारादिकल्पनेन इति चेन्न, युगपत्तत्तद्पादिविषयेन्द्रियसन्निकर्षाद् युगपत् चाक्षुषादिबुद्धिपञ्चकप्रसङ्गात् , तथा च व्यासङ्गक्षणे ज्ञानक्रमदर्शनेनान्यत्रापि ज्ञान क्रमानुमानमिति व्याहन्येत, एकदैव कचित्सकलविषयसन्निकर्षे निखिलेन्द्रियवृत्तिप्रसङ्गेन व्यासङ्गानुपपत्तेः, तर्हि क्रमेण मनसेन्द्रियाणामधिष्ठानात् क्रमवृत्तौ व्यासङ्गोपपत्तेर्मनोऽभ्युपेयतां, किमहंकारादिकल्पनया इति चेन्न, यदि हि इन्द्रियमनोभ्यामेवार्थसन्निकर्षाज्ज्ञानोत्पाद इष्यते, तदा यदा स्वप्नदशायां शार्दूलाभिमानी कश्चित् शार्दूलोऽहममुमर्थ जानामि इत्यभिमन्यते, तदा मनुष्योऽहमिममर्थ जानामीति मनुष्यत्वेनापि अर्थावच्छेदः स्यात् , अस्तिहि तत्र संनिकृष्टं वास्तवं मनुष्यत्वं, नच तत्रेन्द्रियमनसोर्व्यापाराभावात् न नरत्वेनार्थावच्छेद इति सांप्रतं, तथात्वे स्वप्नज्ञानस्यापि अनुत्पत्तिप्रसङ्गात् , सुषुप्तावपि वा तदुत्पादापत्तेः, नच तत्र नरत्वप्रतिसन्धानमभ्रान्तं, शार्दूलाभिमानश्च भ्रान्तः भ्रान्ताभ्रान्ताभ्यां च ज्ञानाभ्यां युगपदर्थोपधानं विरुध्यते इति वाच्यं, स्वप्ने नरत्वप्रतिसन्धानस्यापि भ्रान्तत्वात् , ननु तथापि परस्परविरुद्धजातित्वेन एकदैकस्मिन्नेव आत्मनि शार्दूलत्वनरत्वाभ्यामर्थोपधानं न संगच्छते इति चेत्, एवं तर्हि ४ खापजागरयोः प्रतिनियतार्थगोचराभिमानव्यापार इन्द्रियमनोभ्यामतिरिक्तोऽहंकारोऽभ्युपेयः, यद्येवमस्तु अहंकारो बुद्धिस्तु यांपधावा तदुत्पादापत्तेः, नच नपाराभावात् न नरत्वेनाविन्यत्वेनापि अर्था-12 25%25454545 For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy