________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः
पंचलिंगीतहि द्रव्यरूपतया नित्ये पव्यरूपतया तु अनित्ये पर्यायाणां बन्धादीनामुत्पादव्ययसंभवात् , यदाह-"जह कंचणस्स कंच
णभावेण अवढियस्स कडगाई । उप्पजन्ति विणस्संति चेव भावा अणेगविहा ॥१॥ एवं च जीवदवस्स दवपज्जवविसेसमइ॥१५७||
यस्स । निच्चत्तमनिच्चत्तं च होइ नाओ वलब्भंता ॥२॥" एवं च बन्धादिकमभ्युपयताध्यमेव पक्षोऽभ्युपेयो नान्यथा तत्सिद्विरिति गाथार्थः॥९४ ॥ तदियता क्षणभङ्गादिनिराकरणेन बन्धमोक्षयोः सामानाधिकरण्यं समर्थितं, सांख्याः पुनर्नित्यैकान्तवादिनोऽपि प्रकृतिर्बध्यते, पुरुषो मुच्यत इति प्रतिजानानास्तयोर्वैयधिकरण्यमाहुः, तथाहि-तेषां मतमेतत्-अकारणमकार्यश्च कूटस्थनित्य चैतन्यरूपः पुरुषः, आदिकारणमचेतना नित्या परिणामिनी च प्रकृतिः, ततो महदादिसर्ग इत्यादि, एतदेव किंचिद् विवियते-तत्र कार्यकारणयोस्तादात्म्येन आत्मनः कार्यखकारणखयोरभ्युपगमे परिणामिखेनानित्यखापत्त्या निर्मोक्षप्रसङ्गात् , अकारणमकार्यश्च पुरुषः, ननु सर्वथा बुद्ध्यायकारणले कथमात्मनः सत्त्वाधिगमः, नहि कार्यादिदर्शनलिङ्गं विनाऽतीन्द्रियपदार्थसिद्धौ प्रायोऽन्यत्प्रमाणमस्ति, अत उक्तं कूटस्थचैतन्यरूप इति, अचेतनाया बुद्धश्चेतनोपरागमन्तरेण चैतन्याभिमानान्यथाऽनुपपच्या नित्यचेतनोऽसौ निरूप्यत इत्यर्थः, अथ पुरुषस्याकारणले कथमेष जगत्सर्ग इत्यत्रोक्तम् आदिकारणं प्रकृतिरित्यादि, प्रकृतेः कारणवाभ्युपगमे सिद्धः सर्ग इति भावः, यद्येवं प्रकृतेः कारणबेन पुरुषस्य सकलविषयप्रकाशखभावलेन च सिद्धो जगत्सर्गः किं महदादिकल्पनया इति चेत्, न, आत्मनो विषयप्रकाशस्वभावखखीकारे मोक्षाभावापत्तेः, सर्वोपाधिविरहलक्षणस्य कैवल्यस्यैव मोक्षपदाभिधेयखात् , विषयप्रकाशस्य चोपाधिखात् कथं सोपाधेरस्य मुक्तिः स्यात् , एवं तर्हि घटादिपदार्थप्रकाशस्वभावतया परिणता प्रकृतिरेव विषयावच्छिन्नरूपा भवतु इति चेन्न, प्रकृतेः सदातनखेन विषय
॥१५७॥
For Private and Personal Use Only