________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsu Gyarmandie
GACASSACROSSISitech
हारायोगात् , तत्र यदि तैरात्मनः स्वावच्छेदेन ज्ञानेच्छाप्रयत्नादृष्टाद्युत्पादलक्षण उपकारः क्रियते, तदा तस्य पूर्वज्ञानाद्यवस्था| त्यागेन नित्यैकान्तहानिः, अथ न क्रियते, तदाऽदृष्टादिबन्धाभावात् अपरापरदेहादिसम्बन्धलक्षणः संसारो न संगच्छेत, अथ तेषु अचेतनेष्वपि खात्मतया परिणमितत्वेन सुखदुःखाद्यनुभवादात्मनाऽपि तेषामसौ क्रियते इति पक्षः, तर्हि अत्रापि आत्मनः केवलखस्वरूपहान्या देहाद्यात्मसाक्षात् करणेन कथं नित्यैकान्तता, अथ तेन तेषामसौ न क्रियते, तर्हि संयोगिमात्रं तस्य देहादयो भवेयुः, तथा चाचैतन्याविशेषात् तदवच्छेदेनेव घटाद्यवच्छेदेनापि सर्वगतत्वाभ्युपगमेन आत्मनि ज्ञानसुखादयः सर्वत्रोत्पद्येरन् , कोहि संयोगिमात्रतया अचेतनतया च देहादीनां घटादीनां च विशेषः, अथ तददृष्टनिष्पाद्यत्वात् देहादीनां तदवच्छेदेन भवन्ति ज्ञानादयो, न घटाद्यवच्छेदेन, तेषां तनिषपाद्यत्वाभावादितिचेत्, अथ कथं तस्यैकान्तनित्य-| | स्यादृष्टेनापि सम्बन्धः, तन्निबन्धनैः कषायादिभिरात्मनः संस्काराधानासंभवात् संभवे वा विकारित्वेन नित्यैकान्तहानेः, किं|च प्राणातिपातप्रवृत्तावपि नास्ति तज्जन्यं पातक, तदभावात् तदुत्पाद्यो नरकपातोऽपि नास्तीति निश्चित्य निश्शंकं प्राणप्रहारा|दिषु प्राणिनः प्रवर्तेरन् , नित्यत्वेनात्मनोऽपायासंभवात् , तथा च मुमुक्षूणामपि तद्विरतिरपार्थिका स्यात् , तथाऽनादिप्ररूढ| मिथ्याज्ञानकवलितस्य जीवस्य अपरिणामितया नास्ति कथंचित् तद्विगम इति निश्चयेन न कश्चित् तदुच्छेदाय योगाङ्गेषु यतेत, एवं चाविकारितया गमनवचनाद्यर्थक्रियाभावप्रसङ्गेन चैतन्यरूपस्यापि तस्य सत्त्वमात्रमपि कः श्रद्दधीत, तथा चैकान्तनि
त्यानित्यपक्षयोः संसारादयो न युज्यन्ते, इति तथा चार्षम्-"निच्चस्स सभावंतरमपावमाणस्स कहं णु संसारो । जम्माणन्तर४ नट्ठस्स चेव एगंतओ अमूलो" अमूल इति, एकान्तो निर्हेतुक इत्यर्थः, तसान्नित्यानित्योभयात्मत्व एव बन्धादीनामुपपत्तिः,
For Private and Personal Use Only