________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R- M
aDaily
पंचलिंगी
द पर्याय प्राप्तिर्हि संसारः, न चोत्पादानन्तरं विनश्यतो ज्ञानक्षणस्यासौ उपपद्यते, एकस्य कस्यचिदनुगमाभावेन पूर्वपर्याय- बृहद्धृत्ति
व्यावृत्त्या तस्यैव पर्यायान्तरापत्तेरसंभवात् , तदेवं क्षणिकज्ञानपक्षेऽपि बन्धादीनामसंभव एव, कथंचित्तदभ्युपगमेऽपि एकस्य ॥१५६॥
सर्वावस्थान्वयिनोऽनभ्युपगमेन अन्यस्यान्यस्य क्षणस्य ते भवेयुः, न चैतदुक्तन्यायेन संगच्छते तस्मात् क्षणभङ्गपक्षोऽपि अनुपपन्न इत्याह-'क्षणमङ्गः' क्षणविनश्वरज्ञानपक्षः, 'ता' इति यस्मादत्रापि बन्धादयः परैरभ्युपगता अपि नोपपद्यन्ते, तसात् 'कथं' केन प्रकारेण, 'भवतु' अस्तु, न कथंचिदित्यर्थः, अत्र च क्षणभङ्गपक्षे बन्धादयो न युज्यन्ते इति वक्तव्ये, यत् क्षणभङ्गस्यैवाभावप्रतिपादनं तत्तस्यात्यन्ताप्रामाण्येन तत्पूर्वकस्य समस्तस्यापि सिद्धान्तस्याप्रामाण्यज्ञापनार्थम् , इह च क्षणिकज्ञानमात्रस्वीकारे बन्धादीनामपि अनुपपत्तिरित्युपलक्षणम् , एकान्तनित्यात्मपक्षेपि ते नोपपद्यते एव,तथाहि जीवकर्मप्रदेशानां ववचयस्पिण्डवदत्यन्तं | संश्लेषोहि बन्धः, स च कषायादिनिबन्धनः, ते च आत्मनः किं कंचिदतिशयमादधति न बा, आदधाना अपि किं प्राच्यखभावापगमेन तद्विपर्ययेण वा, नाद्यः, एकान्तनित्यखव्याघातात् , अन्यथा तदपगमाभावात् , न द्वितीयः क्षमादिप्रधानखभावाव| गमे कषायादिभिरतिशयस्य स्वात्मरूपपरिणमनलक्षणस्याधातुमशक्यत्वात् , तथात्वे वा भूयोऽपि नित्यैकान्तव्याघातः, अथाति| शयं नादधति, तर्हि कथं तैरात्मान्तरगतैरिव विवक्षितात्मनो बन्धः, तदभावाच्च न मोक्षः, प्रागुक्तन्यायात् , किं चैकान्तनित्यत्वाङ्गीकारेऽनाद्यविद्यानवदातस्वभावस्थात्मनः परमयोगाद्यभ्यासेनापि अनाधेयातिशयतया तत्त्वज्ञानानुत्पादाच्छश्वदनिर्मो- ॥१५६॥ क्षप्रसङ्गः, बन्धाभावे संसारोऽपि न घटामश्चति, एकस्यात्मनोपूर्वैनिकायविशेषैः शरीरादिभिरभिसम्बन्धोहि संसारः, तैश्च किं तस्य कश्चिदुपकारः क्रियते न वा, तेनापि किं तेषामसौ क्रियते न वा, परस्परोपकारमन्तरेण तस्यैव इत्यादिसंबन्धव्यव-11
AHARAC-
For Private and Personal Use Only