________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थानाभावेन तदनुपपचेः, अपिच कषायादिसहकृतमनोवाक्कायव्यापारनिबन्धनो हि बन्धो गीयते, न च कपायास्तस्य क्षण| विनश्वरतया कमपि संस्कारमाधातुमीशते येन कालान्तरे तत्कलमसौ उप जीत, न चैकसिन् ज्ञानक्षणे कषाया उत्पत्तुमप्यर्हन्ति, प्रतिक्षणं तस्य स्वोत्पादविनाशाकुलीकृततया कपायोत्पादकानां परप्रयुक्ततादृवचनप्रहारादीनां संवेदनाभावाद् अनेन |ममापकृतमिति प्रतिसंधानाभावेन तदुत्पत्ययोगात् , तथा च अकुशल कर्मबन्धाभावान्न प्रेत्यतत्फलं कश्चिदनुभवेत् , तथा एकमिन् क्षणेऽतिशयाधानस्य अशक्यबेन खगायेषिणस्तदर्थ ब्रह्मचयोंदिना न क्लिश्येरन्, ननु मोपपायेकैकशः क्षणानां बन्धस्त|निमित्तकपायायुत्पादो वा, तत्संतानस्य त्वेकस्य सन्ततमनुवर्तमानस्यासी उत्पत्स्यत इति चेन्न, तस्यापि सन्तानिभ्योऽनतिरेकेन | तद्वदेव प्रतिसन्धानाद्ययोगात् तदनुपपत्तेः, अतिरेके वा नामान्तरतः स्थिरैकात्माभ्युपगमप्रसङ्गेन क्षणभङ्गभङ्गापत्तेः, प्रागेव तस्य | निरासाच, नचैकस्मिन् क्षणे शिरसि मे वेदना पादे मे सुख मित्याद्यव्याप्यवृत्तिखानुभवः सुखदुःखयोः संगच्छते क्षणस्य निर्भागखेन तदसंभवात् , नच अपरापरक्षणयोस्तत्संवेदनमितिवाच्यं, यस्यैव मे सुखं तस्यैव मे दुःखमित्येककर्तृकतया तत्प्रतिसंवेदनात क्षणसादृश्यादुत्पद्यमानमिदं भ्रान्तमितिचेत् न, तद्ग्रहणमसंभवेनास्य भ्रान्तबासिद्धेः, कोहि क्षणः क्षणध्वंसितयाऽहमनेन सदृश इति स्वं गृह्णीयात् , भ्रान्तत्वेनास्य तत्प्रभवोत्तरक्रियाणां विसंवादेन ऐहिकामुष्मिककर्मस्वङ्गिनामप्रवृत्तिप्रसङ्गात् , एवं चानुगतमेकमधिकरणं विना ज्ञानक्षणमात्राभ्युपगमे बन्धो न युज्यते, तदयोगाच न मोक्षः, अबद्धस्य निरपराधपुरुषस्येव तदभावात् , तथा च तदर्थक्रियाया निर्विषयत्वापत्तेः, सविषयत्वे वा तत्साध्यस्य कर्माभावलक्षणस्य मोक्षस्य बन्धाभावेनैवायत्नसिद्धत्वात् किं. तदर्थं प्रयासेन, एतेन बन्धाभावे मोक्षवत्संसारोऽपि नोपपद्यत इत्यपि प्रतिपादितम् , आत्मनो मनुष्यादिपर्यायत्यागेन देवतादि
CASSACACACANC+%
For Private and Personal Use Only