SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥१५५॥ SAMACROACADA कत्वम् , अथातीन्द्रियतया वेदार्थानां दुर्भातत्वेनासर्वज्ञस्य तन्निर्माणासामर्थ्यात् पक्षधर्मताबलेन तेषां सर्वज्ञकर्तृकत्वसिद्धिरि8 तिचेन्न, परस्परव्याहतार्थाभिधायकत्वात् स्वर्गादिफलहिंसाधुपदेशकतया च मूढविप्रलम्भकपुरुपकर्तृकत्वसाधनेन तेषां तद-1 सिद्धिः प्रागेव प्रतिपादनात् , तस्माद् वाक्यादपि न ईश्वराख्यसर्वज्ञसिद्धिः, तदेवमन्येऽपि ईश्वरसाधकहेतवः सूक्ष्मधियाऽनेनैव न्यायेनोपस्थाप्य अपाकरणीयाः, एतेन क्लेशकर्मविपाकाशयैरपरामृष्ट इत्यादिना, उत्तमः पुरुषस्त्वन्य, इत्यादिना च, यत्पतञ्जलिस्मृतिकाराभ्यामीश्वरखरूपं निरूपितं तदपि अपास्तं मन्तव्यं, धर्मिण ईश्वरस्थापवदनेन धर्मरूपाणां तद्विशेषणानामपि अपोदितत्वात् , तदेवमनादिसिद्धपुरुषस्य असिद्धर्बन्धाभावेऽपि अनादिसिद्धः पुरुषः कश्चिदस्तीति यत् केषांचिन्मतं प्रागुपन्यस्तं तन्निरस्त, सांप्रतं बंधाभ्युपगमेपि क्षणिकज्ञान मात्रस्यैव मुक्तिरिति यत्केषांचिन्मतं प्रागुपक्रान्तं तन्निरसितुमाह 'नेय अन्न, इत्यादिना' 'नैव' न कथंचिदन्यस्य अपरस्य ज्ञानक्षणस्य, 'बन्धे' कर्मसम्बन्धविशेषलक्षणे सति, अन्योऽपरो ज्ञानक्षणः, 'मुच्यते' सकलकर्मबन्धनादात्यन्तिकतया वियुज्यते, मुच्यत इत्युपलक्षणं तेन संसरतीत्यपि द्रष्टव्यं युक्तशब्दात् प्रागितिरध्याहर्त्तव्यः, इति एवं, 'युक्तं' प्रमाणोपपन्नं, लोकेऽपि कुतोऽपि अपराधाद् यस्यैव कारादिषु बन्धस्तस्यैव दण्डादिना मोक्ष इत्येकाधिकरणत्वेनैव तयोर्दर्शनात् अन्यथाऽतिप्रसङ्गात् , अयमर्थः, आत्मनो बन्धमोक्षौ स्त इति तावत् प्रायो वादिनामविवादसिद्धम् , आत्मा च सौगतैः क्षणिकज्ञानसंतान मात्र एवेष्यते, न च तादृशस्य बन्धमोक्षौ संभवतः, वर्तमानज्ञानक्षणोहि कर्मवन्नन् किं खोत्पादात् प्राग बन्नीयात् , सह वा, पश्चाद्वा, न प्रथमः, असतो बन्धायोगात्, न द्वितीयः, सहभवतोः सव्येतरगोविषाणयोरिव तदसंभवात् , न तृतीयः, उत्पादक्षणानन्तरं निरन्वयध्वंसितया तस्य बन्धहेतुद्वितीयादिक्षणाव 450-%A5%25AMANAS ॥१५५॥ 1 For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy