________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAXYMOUS
भवतो हेत्वन्तरनिग्रहस्थानापातात्, न च प्रामाण्यवाक्यत्वमपि वेदानां सिद्धम् , उक्तन्यायेन तन्निरासात् , तथा च विशेषणासिद्धिरपि, न तृतीयः, अविसंवादित्वं हि अर्थक्रियाकारित्वं यदाह-'अर्थक्रियास्थितिश्चाविसंवाद इति वेदवाक्यानां च | परस्परविरुद्धार्थाभिधायकत्वेन अविसंवाद्यर्थगोचरत्वासिद्धेः, अथानुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वं| वेदत्वं, न ह्यत्र प्रत्यक्षादिकं मूलं तदर्थानामतीन्द्रियत्वात् तस्मात्तत्सर्वज्ञप्रणीतत्वसिद्धिरितिचेन्न, अनन्तरोक्तनीत्या महाजनप| रिग्रहासिध्या तदसिद्धेः, यदपि वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद् अस्मदादिवाक्यवदित्यनेन तत्साधनं, तदपि न सुन्दरम् , अत्र तावदपौरुषेयवादी प्रत्यवतिष्ठते, वाक्यत्वमप्रयोजक नहि असदादिवाक्यं वाक्यत्वात् पौरुषेयं किन्तु ताल्वादिसंयोगान्वयव्यतिरेकानुविधानात्, वेदवाक्यानि तु तदनुविधानाभावात् वाक्यत्वेऽपि अपौरुषेयाणि भविष्यन्तीति ताल्वादिसंयोगानुविधानमुपाधिः, न च ताल्वादिसंयोगस्य साधनव्यापकत्वान्नोपाधित्वमिति सांप्रतम् , आजन्मसर्वाश्रुतचरस्वप्नोपलब्धनव्य काव्यादरकाण्डोत्थगगनभारत्यादेर्वा वाक्यत्वेऽपि तदनुविधानाभावाद् तथा च तस्य साधनव्यापकत्वानुपपत्चिरितिचेत्, तदयुक्तं, खप्नोपलब्धकाव्यादेहि किं कस्यचित् कदाचित् क्वचित्तदननुविधानं सर्वेषां सर्वदा सर्वत्र वा, नाद्यः, तदाहि नरकालदेशान्तरेषु तस्यापि तदनुविधानसंभवेन अस्स साधनाव्यापकत्वायोगात् , न द्वितीयः, अत्र सर्वेषां सर्वदा सर्वत्र तदनुविधानं नास्तीति अर्वाग्दृशा निर्णेतुमशक्यत्वात् कदाचित्तत्रापि तदनुविधानस्य संभावनाविषयत्वात् , नहि अनादौ संसारे कस्यापि अत्र तदनुविधानं न जातमिति संभवति, तस्मादस्य साधनव्यापकत्वेनोपाधिविषयत्वायोगात्, वाक्यत्वं प्रयोजकमेव, ननु मा भूदप्रयोजकत्वं, तथाप्यस्य न विवक्षितसाध्यसाधकत्वं, तथाहि वाक्यत्वात् पुरुषमात्रकर्तृकत्वं वेदानां सिध्येत् न सर्वज्ञकर्तृ
ति सांसाधनव्यापा, नाय, तदनुवयापि
For Private and Personal Use Only