________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
anal
पंचलिंगी हिताहितप्राप्तिपरिहारफलोपदेशमात्र एव प्रवृत्तिः समीचीनाऽलं सुखदुःखमयसृष्ट्या, ईश्वरमन्तरेणापि देशकालादिसहकारि
समवधानेन जन्तूनां परिपक्रिमस्खादृष्टफलोपभोगसर्गाद्युपपत्तेः, अत एव न तस्य सर्वज्ञत्वमपि रागादिक्षयसमुत्थत्वेन तस्य ॥१५॥ तदभावेऽभावात , तथा च प्रवक्तुरवीतरागतयाऽसर्वज्ञतया च न तद्गुणपूर्वकत्वं त्रय्याः सिद्धिमधिरोहति, अपि च तद्गुण
पूर्वकत्वसिया प्रमाणत्वसिद्धिस्तया च तद्गुणपूर्वकत्वसिद्धिरित्यन्योन्याश्रयादपि न तत्सिद्धिः, महाजनपरिग्रहात प्रमाणत्वसिद्धौ नेतरेतराश्रयत्वमितिचेत्, अथ कोऽयं महाजनः किमपरीक्षकप्रभूतलोकः, उत परीक्षादिगुणवत्तया महान् गरीयान् जनो महाजनः, नाद्यः, तस्यापरीक्षकत्वादेव गतानुगतिकतया लोलुपतया वा तदुक्तदेहाद्यनुकूलस्नानश्राद्धभोजनादिक्रियासु प्रवृत्त्या तत्परिग्रहेण तत्प्रामाण्यासिद्धेः, इतरथा सुगताद्यागमानामपि तदापत्तेः, न द्वितीयः, उक्तयुक्त्या पूर्वापरविरोधित्वेन अप्रामाणिकार्थोपदेशकतया तस्य तत्परिग्रहासंभवात् , एवं च न तत् प्रमाणत्वं, न च भवत्पक्षेऽपि एतद् दोषानुपङ्ग इति वाच्यम्, प्रमाणोपपन्नार्थप्रतिपादकतया परीक्षकाणां परिग्रहेण प्रागेव तत्प्रमाणत्वसिद्धेः, एतेन सर्वज्ञप्रणीता वेदा वेदत्वात् , यत् पुनर्न सर्वज्ञप्रणीतं नासौ वेदा यथाऽस्मदादिवाक्यम् , इत्यनेनापि ईश्वरसिद्धिः प्रत्युक्ता, तथाहि-किमिदं वेदत्वं ? किमाप्तोपदेशत्वम् , आहो अतीन्द्रियार्थप्रतिपादकवाक्यम् , उत अविसंवाद्यर्थगोचरवाक्यत्वं, नाद्यः, हेतोः साध्याविशिष्टत्वप्रसङ्गात् , नहि सर्वज्ञप्रणीतत्वादन्यदाप्तोपदेशत्वं नाम, न द्वितीयः, बुद्धादिसिद्धान्ताना
मपि तथात्वापातात् तेष्वपि स्वर्गापूर्वदेवतादीनामतीन्द्रियार्थानां प्रतिपादनात् , तथा च विरुद्धो हेतुः, अथ अतीन्द्रियार्थद प्रतिपादकप्रमाणवाक्यत्वं हेतुर्नच तेषां प्रमाणवाक्यत्वं, तथा च न तैर्विरुद्धताहेतोरितिचेन्न, एवं हि पश्चाद् हेतुं विशिषतो
MARA
रामाण्यासिद्धः,व गतानुगतिकताकप्रभूतलोकः, उस
FACTS
॥१५४
For Private and Personal Use Only