SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदणाइसिद्धजोगो असंगओ नय अन्नवंधम्मि । अन्नो मुञ्चइ जुत्तं खणभंगो ता कहं भवउ ॥ ९४ ॥ व्याख्या - यस्माद् बद्धस्यैव मोक्षो नाबद्धस्य 'तत्' तस्माद्धेतोरनादेः प्राथम्यशून्यात्कालात् स्वरसत एव रागादिक्लेशबन्धाभावेन सिद्धो मुक्तोऽनादिसिद्धो, नतु इतरमुक्तवत् कालदेशादिप्रतिनियमेन प्रतिपक्षभावनाद्यभ्यासात् मिथ्याज्ञानादिक्लेशबन्धप्रहाणेन सिद्ध इत्यर्थः यथाह - पतञ्जलिः, क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय संप्रदायप्रद्योतकः सर्गसंहारादिना जगतामनुग्राहकः पुरुषविशेष ईश्वर इति अत्र क्लेशकर्माद्यपरामर्शेन तस्य अनादिसिद्धलं व्यञ्जितं, स्मृतिरप्याह- उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विमर्त्यव्यय ईश्वरः ॥ १ ॥ उत्तमतं चात्र असंसारित्वं सर्वज्ञत्वादिकं च, परमत्वं सर्वोपास्यत, लोकत्रयं सर्वोपलक्षणम्, आवेशो ज्ञानचिकीर्षाप्रयत्नशालिनः संयोगः, भरणं धारणम्, अव्ययत्वमनागन्तुकज्ञानादिविशेषगुणशालित्वम्, ऐश्वर्य संकल्पाप्रतिघात इति, अत्रापि असंसारित्वा| नागन्तुकज्ञानादिगुणशालिखाभ्यामनादिसिद्धमुक्तं, तदेवं व्यवस्थितस्य अनादिसिद्धस्य ईश्वरस्य, योगो घटना सिद्धिरिति यावत्, असंगतोऽनुपपन्नो बन्धाभावे मुक्तेः कथमपि न सिद्धिरिति प्रसाधनात् ननु अनादिमुक्तस्य ईश्वरस्यासिद्धि - रित्यसिद्धं तत्साधकप्रमाणसद्भावात् ननु तत्साधकं प्रमाणं किं प्रत्यक्षमनुमानं वा ? न तावत् प्रत्यक्षम् अस्मदादिमिस्तस्य प्रत्यक्षेण ग्रहीतुमशक्यखात्, ननु अनुमानं भविष्यति, तथाहि - अनादिप्रसिद्ध कर्तृकादन्यत् सकर्तृकं, कार्यवात्, घटवत् न च कार्यत्वं हेतुरसिद्धः, इदानीमुपजायमानेषु अङ्कुरादिषु कार्यत्वस्य प्रत्यक्षेणैव सर्वप्रतीतेः, चिरंतनेषु For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy