________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥१३७॥
मुच्यते, कारादिभ्यो बहिष्क्रियते, ततश्च लोकेन मुक्तोऽयं बन्धनादिति व्यपदिश्यते, अत्र इत्यध्याहारस्तेन इति 'प्रकटं स्फुटं लौकिकानामपि प्रतीतोऽयमर्थः, यतो यसाद् हेतोः 'हन्दीति' पूर्ववत् , ततश्च यदा लोकेऽपि बद्धस्यैव मोक्षसंभवस्तदात्मनो बन्धाभावेऽपि अयत्नसिद्धा मुक्तिरिति का कथा, तस्माद् बद्धस्यैव आत्मनस्तपोध्यानादिना तद् वियोजने मोक्षो नान्यथा इत्यभ्युपेयं सर्ववादिनामप्यत्र संप्रतिपत्तेः, तसात् सूक्तं बन्धाभावे संसारमोक्षौ न स्यातामिति, ननु लोके यथा बद्धस्यैव मोक्षस्तथा मुक्तस्यैव बन्ध इत्यपि दृश्यते, प्रकृते तु आत्मनो बद्धस्यैव मोक्ष इत्येव विकल्पोऽभिमतो नतु विकल्पान्तरमपि, अयोगिकेवलिनं विहाय प्रतिक्षणं संसार्यात्मनां सिद्धान्ते बन्धस्यैवाभिधानात् , यदाह "सवाबत्थासु जओ पायं बंधो भवत्थ| जीवाणं" तस्मादसमो लोकदृष्टान्त इति चेन्न, प्राग् बद्धानां कर्मणामुदयप्राप्त्या क्षपणात्तन्मुक्तत्वेन प्राच्यतद्वन्धस्य चाविवक्षयाभिनवानां च तेषामभीक्ष्णं बन्धेन बद्धस्यैव मोक्ष इति विकल्पवन्मुक्तस्य बन्ध इति विकल्पान्तरस्यापि उपपत्तेः, अथवा | लोकेऽपि मुक्तस्य बन्ध इत्यत्र स्वातच्यमात्रापेक्षयौपचारिकं मुक्तत्वं, बद्धस्य मोक्ष इत्यत्रैव तु मोक्षशब्दस्य मुख्यार्थत्वं बन्धनान्मुक्तस्य स्वातव्यं मोक्ष इति वस्तुतो मोक्षशब्दार्थस्य प्रसिद्धेः, तथा चात्मन इव लोकेऽपि तत्त्वतो बद्धस्यैव मोक्ष इत्येक एव विकल्पो नतु मुक्तस्य बन्ध इति विकल्पान्तरमपि, स एवात्र दृष्टान्तखेन उपन्यस्तः, एवं च दृष्टान्तदाान्तिकयोर्न वैषम्यम् इति गाथार्थः ॥ ९३ ॥ तदेवं बद्धस्यैव मोक्ष इत्यनेन नित्यस्यापि बद्धस्य मोक्षाभावं बन्धमोक्षयोश्च सामानाधिकरण्यमभि व्यंज्य ये केचिदस्ति जगति बन्धाभावेऽपि अनादिमुक्तः पुरुषविशेष ईश्वर इत्याचक्षते, येच बन्धाभ्युपगमेऽपि नित्यमात्मानमपहुवानाः क्षणिकज्ञानमात्रस्यैव मुक्तिरिति प्रतिजानते, तन्मतद्वयं संप्रति तेषां मुक्त्यभावापादनेन अपाकर्तुमाह
॥१३७॥
For Private and Personal Use Only