SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KR AMMALXX हारगुरौ गुरुभावना । अतत्वे तत्त्वबुद्धिश्च मिथ्याखमिदमुच्यते ॥ १ ॥ तदादिर्येषां ते तथा, आदिशब्दाद् अविरतिकषाययोगाणां -। | ग्रहः, तत्र मनःसहचरितचक्षुरादीन्द्रियाणामनियमनं जीवनिकायानां पण्णां च हिंसा अविरतिः, अनन्तानुबन्धादिभेदात् | क्रोधादयः षोडश हास्यादयश्च नव कषायाः, हास्यादीनां नो कषायत्वेऽपि कषायसाहचर्यात् कषायत्वं, सत्यमृषादिभेदेन प्रत्येक मनोवचश्चतुर्द्धाद् औदारिकादितन्मिश्रकार्मणभेदेन कायस्तु सप्तधेति योगाः, ते यथाक्रमं पश्च द्वादश पञ्चविंशति पञ्चदश भेदभाजो, निमित्तानि निमित्तकारणानि यस्य स तथा, एभिः कारणैः संसार्यात्मनां ज्ञानावरणादिकर्मबन्धसंभवात् , एवं च निमित्तभेदेन नैमित्तिकस्य बन्धस्यापि भेदादुपचारेण सप्तपश्चाशद् विधत्वं, यदाह 'बन्धस्स मिच्छअविरइकसायजोगत्ति हेअवो चउरोति |एवं बन्धस्य सहेतुकत्वं समर्थ्य तस्यैव सोपपत्तिकत्वं दर्शयितुं विपक्षे अनिष्टप्रसंगमाह 'इतरथा' अन्यथा वन्धानभ्युपगमे कार्मणशहरिराभावे तत्कार्याणामौदारिकादिशरीराणामभावनात्मनो बन्धाभावात् , 'कथं' केन प्रकारेण, तुरक्षमायां, तेन न क्षम्यते एतत् यसंसरणं कर्मसंबद्धस्य जीवस्य गतेर्गत्यन्तरेषु संसरणं संसारः, बन्धाभावे संसारो न स्यात् इत्यर्थः । कारणस्य बन्धस्याभावे कार्यस्य संसारस्यानुत्पत्तेः, तथा च सर्वेषां मुक्तिप्रसङ्गेन संसारिजीवविरहितं जगदापोत, ननु आपद्यतामयत्नेन हि मुक्तिसिद्धौ अलं बन्धायाससहनेन कोहि सुखेन इष्टसिद्धौ तदर्थ कष्टमभ्युपेयाद् इत्याशंकायां विपक्षेऽनिष्टप्रसङ्गान्तरमापादयन् लौकिकनिदर्शनेन बद्धस्यैव मोक्ष इति समर्थयन्नाह 'न च' नैव लोकेऽपि अतिशयितविवेकरहितजनेऽपि आस्तां लोकोत्तरे, तत्रहि बद्धस्यैव आत्मनस्तद्वियोगेन मोक्षप्रतिपादनात् इत्यपिशब्दार्थः, अबद्धो निगिडादिभिरसंयमित एवमुच्यते-बन्धनात् मुक्तोऽयमिति व्यपदेशभाग भवति, किन्तु कुतोऽपि अपराधात् पार्थिवादिभिः कारादिषु बद्ध एव दण्डादिना विशोधितापराधः पुरुषः पश्चाद् | For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy