________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
पंचलिंगी
बृहद्वृत्तिः ५लि
॥१३६॥
XXXXXXX
कर्मादीनामात्मना सम्बन्धः, तस्य तु तेन कथमसौ, सम्बन्धकान्तराभावात, भावे वाऽनवस्थापातादिति चेन्न ? अनादिकालादात्मना सह कथंचित्तस्य तादात्म्येन तत्सम्बन्धस्य अपर्यनुयोज्यत्वात् अनादितादात्म्येन, तर्हि मुक्तावपि आत्मनस्तदविरहप्रसङ्ग इति चेन्न, ताइक्सामग्रीबलात् क्षीरस्य नीरेणेव कदाचित् तस्यापि तेन विरहोपपत्तेः तथापि अनादितया तस्य नित्यत्वप्रसङ्ग इति चेन्न, तथात्वेऽपि भवदभिमतप्रागभाववत्तस्य अनित्यत्वसिद्धेः, अभावस्य अनादेरेषा गतिर्नतु मावस्य इति चेन, अनादित्वेऽपि भावरूपाया अपि मिथ्यावासनाया अनित्यत्वाभ्युपगमात् , अन्यथा मुक्तावपि तत्प्रसङ्गात् , प्रवाहवाहितया तस्या अनादित्वं नतु कूटस्थतया, तेन तथात्वेऽपि अनित्यत्वं भविष्यति इति चेत्, तर्हि कामणशरीरेऽपि तत्समानं, एतच्च जीवस्य भवान्तरप्रापणे साधकतमम् इतरथा औदारिकादिशरीरस्य तद्भवे एव त्यागेन शरीरान्तरस्य चाभावेन तदनभ्युपगमे तू गत्यनुपपत्त्या भवान्तरप्राप्तिन स्यात् , नचाशरीर एव भवान्तरं प्राप्स्यति इति वाच्यं, सदेहस्यैव तस्येह गमनदर्शनेन अन्यत्रापि तथानुमानात्, अचेतनस्य कथं तस्य तत्प्रापेणसामर्थ्यमितिचेन्न, अचेतनस्यापि चेतनाध्यासितस्य पोतादेरिव तत्प्रयुक्त्या वयं प्रयोजकस्य देशान्तरप्रापणे सामोपलम्भाव, स्वकल्पनाव्यवस्थापितमेतदिति चेन्न, आत्मनः सर्वगतत्वाभ्युपगमेन गत्यभावाङ्गीकारेऽपि मनसो भवान्तरशरीरप्रापणसमर्थस्य आतिवाहिकसंज्ञया शरीरान्तरस्य वैशेषिकादिभिरपि अभ्युपगमात्, प्रज्ञाकरगुप्तोऽपि आह-अन्तराभवदेहोऽपि सूक्ष्मत्वानोपलक्ष्यते । निष्क्रामन् वापि प्रविशन् नाभावोऽनीक्षणादपि ॥१॥ तदेवं कार्म-| णशरीरानादिसंबद्धस्य संसार्यात्मन औदारिकादिशरीरसम्बद्धवाद् बन्धसिद्धिः, स च मिथ्यावादिनिमित्तः, तत्रानाभोगनिमित्तं विपरीतज्ञानं मिथ्यात्वमेतच्च अमनस्कानां, तदन्येषां तु रागादिकलुषितेषु अदेवादिषु देवबुद्धिरपि, तदुकम् “अदेवे देवताबुद्धि
॥१३६॥
For Private and Personal Use Only