________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
XXX***
व्याख्या-मिथ्याखादिनिमित्तो बन्धो भवतीति सम्बन्धः, तत्र कर्मपुद्गलजीवप्रदेशानां क्षीरनीरवत् परस्परानुप्रवेशलक्षणः सम्बन्धो बन्धः, न च कर्म एव नास्ति कुतस्तस्य जीवेन सह सम्बन्ध इति वाच्यं ? सकलज्ञेयज्ञातृस्वभावस्यापि आत्मनो भूतावेशितपुरुषस्येव खगोचरज्ञानप्रतिबन्धदर्शनेन तत्प्रतिबन्धकस्य भूतस्येव ज्ञानावरणादिकर्मणः प्रागेव प्रसाधनात् , तेन च कर्मणा कुण्डमिव बदराणां सकलकर्मणामधिकरणभूतं बीजमिव चाङ्कुराणां तेषां प्ररोहसमर्थ सर्वेषामौदारिकादिशरीराणां कारणं सन्तत्याऽनादिरूपम् आमोक्षं जीवाविनाभूतं कार्मणशरीरमारभ्यते, कथमेवंरूपस्यास्य सिद्धिरितिचेद् ? आगमादिति ब्रूमः, यदाह-"कम्मविगारो कम्माणमट्टविहविचित्तकम्मनिष्फन । सवसि सरीराणं कारणभूयं मुणेयवं" नन्वेवं कर्मपुद्गलारभ्यतया अस्य मूर्त्तत्वेन औदारिकशरीरवद् इन्द्रियकत्वप्रसङ्ग इतिचेन्न, अत्यन्तसूक्ष्मपरिणामपरिणतावयव निष्पाद्यतया वैक्रियादिशरीरस्येव अस्य पिशितचक्षुषामतीन्द्रियत्वोपपत्तेः, किमित्येवमस्य कल्पना इतिचेन्न, तदन्तरेण आत्मनो बन्धासिद्धेः औदारिकादिशरीरसम्बन्धासिद्धेश्च, न खलु घटाकाशयोरिव मूर्त्तामूर्तयोः कर्मात्मनोरौदारिकादिशरीरात्मनोर्वा परस्परानुप्रवेशलक्षणः सुखदुःखानुभवहेतुर्वा बन्धविशेषः संभवति, कार्मणशरीरानान्तरीयकस्य तु आत्मनस्तद्वारेण कर्मादिभिः सह सर्वमेतदुपपद्यते, तथा च कार्मणशरीरानुषक्तः कर्मवर्गणानाम् औदारिकादिवर्गणानां च ग्रहणेन योगवान् कषायस्नेहानुलिप्तः कर्म| रजोभिरौदारिकादिशरीरैश्च आत्मा कथंचिदभेदेन सम्बध्यते, इत्यभ्युपेयम् , अत एव तदवच्छिन्नस्य आत्मनः सुखदुःखानुभवः,
स्ववार्येण औदारिकादिपुद्गलानामात्मना चेतनतया परिणमितत्वाद् यथोक्तम्-'जीवझवसायाओ जीवत्ता पुग्गला परिणमंतीति, | एवमनभ्युपगमे च शरीरस्य जीवादत्यन्तभेदात् तदवच्छेदेन तस्य सुखदुःखसंवेदनं न स्यात्, ननु भवतु कामेणशरीरद्वारेण
५२-५५-2-
-20
**
For Private and Personal Use Only