SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्मनः कथंचिदभेदेन च रागादिभिः सामानाधिकरण्यात् प्रतिविहितम् , अस्तु वा तस्य संतापात्मकलं, तथापि संतापस्य दुःखात्मकत्वेन तस्य च आत्माधिकरणखेन तैः सामानाधिकरण्यात् , केवलं कायाधिकरणले तु तस्याचैतन्येन तदनुभवाभावप्रसङ्गात् मृतकायस्यापि वा शीतातपादिभिस्तदनुभवापत्तेः, एवं च तपसो रागादिक्षयहेतुखसिद्धौ "मृद्वीशय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यसिंहेन दृष्टः", तथा "मणुण्णं भोयणं भुजा मणुण्णं सयणासणं । मणुण्णंसि आगारंसि मणुण्णं झायए मुणी" इत्यादि यदुक्तं तदुक्तन्यायेन मृदुशय्यादेः मनोज्ञभोजनादेश्च यथाक्रम मुक्तिध्यानाङ्गखानुपपत्ते रसनादिलोलुपखमेव भवतां व्यनक्ति, अपि च कायसंतापरूपखेन यधुपवासादेरविधेयताऽभ्युपगम्यते, तदा प्रणीतरसादिभुजां मन्मथोन्मादस्य प्रायोऽवश्यं भावितया ब्रह्मचर्यस्यापि तपसोऽधिकतरकायसंतापरूपत्वेन अविधेयताधि पत्तेः, इति तच्यागेनापि सुखीभव, नच स्निग्धाहारस्य ध्यानाविरोधित्वेन अत्यागो निधुवनस्य तु तद्विरोधित्वेन त्याग एव युक्त इति वाच्यं ? स्निग्धाहारस्यापि ध्यानविरोधित्वेन ब्रह्मचारिणामुत्सर्गेण आगमे निषेधात्, तदुक्तं "विभूसा इत्थिसंसग्गो पणीयं रसभोयणं । नरस्सऽत्तगवेसिस्स विसं तालउडं जहा"॥१॥अत एव भिक्षूणां प्रतिगृहं भिक्षाटनेन सिद्धान्ते भोजनविधेरभ्यनुज्ञा, तत्रहि प्रणीताशनालाभेन लाभेऽपि वा कथंचिद् दोषशङ्कया तदग्रहणेनामांसलस्य साधोः काययात्रामात्रेण तदसंतापब्रह्मचर्ययोरुभयोरपि निर्वाहोपपत्तेः, तस्मात् मोक्षमाणेन तपोऽपि अनुष्ठेयं, यदाह "ता जह न देहपीडा न यावि वियमससोणियत्तं पि । जह धम्मज्झाणबुड्डी तहा इमं होइ काय" नन्वेवं तपसाऽलब्धवृत्तीनां कर्मणां क्षयाभ्युपगमे तेषां निष्फलता प्रसङ्गो, न चेदमुपपन्नम् अनुपभुक्तानां तेषां क्षयानुपपत्तेः, 'नाभुक्तं धीयते कर्म कल्पकोटिशतैरपि', इतिस्मृतेः, उपपत्तो वा तद्वदेवो For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy