________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
मादलतत्सहकारियोगात द, किम् उपवासादिकायसंगणना रागादीनां शायदे
वृहद्धत्तिः
५लि.
॥१३४॥
रूपादपि कालक्षेत्रादिसहकारिमतस्तस्मादखिलकर्मप्रध्वंसः, परिणामतारतम्यभेदेन तपसोऽप्रमेयमहिमतया भगवता प्रतिपादनात् | तत् कस्य हेतोरेकस्मादपि मणिमत्रौषधादेस्तत्तत्सहकारियोगात् दारिद्यामयाद्यपगमतस्तत्तदभ्युदयादिनानाअर्थक्रियादर्शनेन तसादपि तद विरोधात्, एतेन ध्यानविधृननीया रागादयो दोषाः, किम् उपवासादिकायसंतापेन, न खलु अनायासेन साध्यसिद्धि|संभवे क्लेशेन तत् सिसाधयिषन्ति प्रेक्षावन्तः, नच कायाधिकरणात् संतापादात्माधिकरणानां रागादीनां क्षयो युज्यते, तथात्वे
वा चैत्रकृतात् तपसो मैत्रस्यापि तत्क्षयप्रसंगात् , ध्यानात्तु समानाधिकरणतया तत्तत् क्षयः संगच्छते इत्यादि यदुक्तं सौगतै|स्तदपि प्रतिक्षिप्तं, ध्यानस्यापि तपोभेदेन प्राक् प्रतिपादनात् , नहि उपवासादिकमेव तप इति जैनसिद्धान्तः, यद्वाऽस्तु तपसो ध्यानस्य पार्थक्यं तथापि किं ध्यानेनैव रागादीनां विधननमिष्टम् , आहो ध्यानेनापि यद्याद्यः पक्षः, तदा भवतामपि ब्रह्मचर्यचरणस्याऽपार्थक्यप्रसङ्गः, ध्यानेनैव तत्सिद्धेः, अथ निधुवनविधे रागवृद्धिहेतुतया ध्यानव्याघातकत्वेन ब्रह्मचर्यस्य तु तदाङ्गत्वेन तदाचरणस्य सार्थकत्वमितिचेत् ? तर्हि प्रत्यहं स्निग्धमधुरदुग्धाद्यभ्यवहारस्यापि चरमधातूपचयनिमित्तत्वेन रागोत्तेजकतया ध्यानविध्यापकत्वेन, तदनभ्यवहारस्य तु ब्रह्मचर्यवत्तदङ्गत्वेन तस्यापि आचरणाविरोधात्, अन्यथा ध्यानासिध्या रागादिविध्वंसायोगात् , तमाद् रागादिप्रहाणमिच्छता ब्रह्मचर्यवद् विकृत्यादिपरित्यागरूपं तपोपि अवश्याभ्युपेयम् , अथ द्वितीयः, तदा अपिशब्देन ध्यानाङ्गतया अन्यस्य ब्रह्मचर्यस्य ग्रहणं चेत? तर्हि कायानुतापरूपस्य तपसोऽपि तदिष्यतां तस्यापि ब्रह्मचर्यवद् तदङ्गत्वाविशेषात् , तदन्तरेण स्निग्धाशिनां तत्त्वतो ब्रह्मचर्यस्यापि असंभवात् , उभयग्रहणं चेत्तदानुज्ञया वर्तामहे, यदपि कायसंतापात्मकस्य तपसो वैयधिकरण्येन रागादिक्षयासामर्थ्याभिधानं तदपि तस्य शुभात्मपरिणामत्वाभ्युपगमेन कायादा
| ॥१३॥
For Private and Personal Use Only