________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हा रथेन उत्सहिष्णुस्तपसि तस्य विजिगीषोरिव शत्रुनिशितशस्त्रघातावगणनया विजयपताकाभिलाषेण समरशिरसि प्रवृत्तेरविरोधात् । | यदपि चित्राशक्तिभाजां कर्मणां कथमेकरूपात कायसंतापमात्राद इत्यादिलपितं, तदपि न युक्तम् , उक्तन्यायेन तपसः कायसंतापमात्रत्वानङ्गीकारात् , यच्चोक्तं भिक्षाचरादीनामेव तपस्विता स्यादित्यादि, तदपि न, विकल्पानुपपत्तेः, तथाहि-का इयं | तपखिता? किं निर्दैन्यतया लाभपूजाद्यनपेक्षत्वेन मृष्टान्नपानादिलाभे सति अपि निरीहतया तच्यागित्वम्, अहो भोजना द्यर्थितया प्रतिगृहं भिक्षाभ्रमणेऽपि तदलाभाद् दैन्यवृत्तित्वे सति कायकृशता, उत वराकशब्दाभिधेयता ? न प्रथमः, एवंविध तपस्वितायाः मुमुक्षुषु परममुनिष्वेव भावात् , भिक्षाचरादिषु असंभवेन तत्प्रसंजनस्य तत्रानुपपत्तेः, द्वितीयतृतीयपक्षयोश्च सिद्धसाधनात्, एवंरूपायास्तस्या भिक्षाचरादिषु अस्माभिरपि अभ्युपगमात्, योगिनां च केषांचित तादृक्कायसंतापायोगेन अतपखितापादनमपि असंगतं, ध्यानापरनाम्नो योगस्यापि तपस्त्वाभ्युपगमेन तद्वतामविवादेन तपखित्वसिद्धेः, यदपि अथ न कायसंतापमात्रं तपः किन्तु कुशलात्मपरिणामरूपं तथापि कथमेकरूपात् तसात् चित्रकर्मक्षय इत्यादि, तदपि असमीचीनं, कुशलात्मपरिणामस्य तत्त्वत एकरूपस्यापि तत्तन्निमित्तभेदेन तारतम्येन च भेदसिधा नानाशक्तिभाजामपि कर्मणां प्रध्वंसहेतुत्वोपपत्चेः, अनशनप्रायश्चित्तादिभेदेन च तनिमित्तभेदस्य आगमात् सिद्धेः, यदाह-अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यतपः प्रोक्तम् ॥१॥ प्रायश्चित्तध्यानवैयावृत्यविनयावर्थोत्सर्गः स्वाध्याय इति तपः पदः | प्रकारमाभ्यन्तरं भवति, एतेनाथ सकलकर्मशक्तिसंकरक्षयकारितप इत्याशंक्य यदेकरोमोन्मूलनादिना सकलकर्मक्षयप्रसंजनं है तदपि निरस्तं, तत्तन्निमित्तकारणयुजस्तारतम्यवतश्च कुशलात्माध्यवसायरूपात् तपसस्तत्तत्कर्मशक्क्यपगमाभ्युपगमात्, भवतु चैक
1-44-4ACROKAR
For Private and Personal Use Only