SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी || मरूपं तपः समामनन्ति परममुनयः, एवं रूपस्य चास्य कथं कायसंतापमात्रतयाऽशुभकर्मफलत्वं संगच्छते, तत्क्षयोपशमेनैवात्रवृहद्वृत्तिः पुण्यात्मनां प्रवृत्तिसंभवात, न चैवं विधेत्र प्रवतेमानानां कायसंतापलवसंभवेपि मनःसंतापस्तदभावाच मनाककायसंताप: ५ लि. ॥१३३॥ क्रीडाव्यग्रकमाराणामिव सन्नपि असत्कल्प एव, यदपि आत्तेध्यानादिना कमेबन्धकारणत्वेन अस्य साम्राज्यज्वलनप्रवेशादि समानतोपवर्णनं तदपि न सम्यक, अनभ्युपगमात्, मनःसमाध्यादिहेतोरिन्द्रियवशीकारमात्रकारिण एव चास्य भगवताभ्यनुज्ञानात यदाह "सो हु तवो न कायवो जेण मणो मंगुलं न चिंतेइ । जेण न इन्दियहाणो जेण य योगा न सीयंति ॥१॥" तथा, कायो न केवलमयं परितापनीयो मृष्टै रसैबेहुविधेनेच लालनीयः । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु, वश्यानि येन च तदाचरितं जिनानाम् ॥१॥ न चैवं तपस्यतामार्तध्यानाद्याविर्भावः, न च स्तोकेनापि कायसंतापेन मनःखेदप्रादुर्भावादस्य आर्तध्यानविधायिखमितिवाच्यं, निरन्तरानन्तसंसारदुःखसंतापकदर्थितस्य तत एव तस्मादुद्विजमानस्य तीर्थकरमहावैद्योपदेशात् तदपायोपायं तपस्यादिकं महौषधमिव अधिगमस्य तत्र प्रयतमानस्य दुष्कोमयं प्रध्वंसेन, निष्प्रतिमप्रशमारोग्यसुखरससंवेदनात् महाव्याधितस्येव सुतपखिनस्तदनुपपत्तेः, अभिमतार्थसिद्धी निर्भोजनादिजन्यशरीरबाधाया अपि प्रमोदहेतुत्वेन रत्नवणिगादीनां श्रवणात्, यदुक्तम्-"दृष्टा चेष्टार्थसंसिद्धौ कायपीडा ह्यदुःखदा । रत्नादिवणिगादीनां तद्वदत्रापि भाव्यताम् ॥१॥ श्रूयन्ते च लोकेपीश्वरावर्जनेनाभीष्टसिद्धौ पार्वत्यास्तपःप्रभवक्लेशस्य देहपाटवहेतुता, तथा चाह स्वकाव्ये कालिदासः, "अद्यप्रभृत्यवनताङ्गि? तवासि दासः क्रीतस्तपोभिरितिवादिनि चन्द्रमौलौ । अहाय सा नियमजं क्लममुत्ससर्ज क्लेशःफलेन हि पुनर्नवतां विधत्ते ॥१॥ इति, भवतु वा कथंचित्कायसंतापः शुभध्यानयुजस्तपस्विनस्तथापि तदवधीरणया कर्मनिर्जरा महालाभमनो k- LAXMARL ॥१ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy