________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AAAAAAAAAAAX
सहिष्णवः, तस्य निर्जराहेतुत्वं प्रति विप्रतिपद्यन्ते, तपःसिद्धौ हि तस्य निर्जराहेतुत्वं सिध्येत् , तदेव तु अद्यापि न सिध्यति, तस्यौदयिकभावस्थभावकायसंतापरूपत्वेन अशुभकर्मफलतया नारकादिकायसंतापवद् वस्तुतस्तपस्याऽसंभवात् , अथ नारकादीनां पारवश्येन तत्कायसंतापस्य न तथात्वं? मुमुक्षूणां तु वचेतसः समाधिना अस्य प्रतिपत्तेस्तथात्वमितिचेन, चेतःसमाधिमत्साम्राज्यसुखस्य तथाविधस्यैव च ज्वलनप्रवेशप्रयागतटप्रपातादेस्तथात्वापातात् , अथ राज्यादौ विषयव्यासङ्गहिंसादिना ज्वलनप्रवेशादौ च लोकशास्त्रविप्रतिषिद्धखवधप्रवृच्याभिनवकर्मबन्धात् कथं तस्य तथात्वं, तर्हि प्रकृतेऽपि आर्तध्यानाद्युत्पादेन कर्मबन्धस्य समानत्वात् तपस्त्वं दुर्लभ, किश्च राज्यदौर्गत्याधिव्याधिनैरुज्यादिनानाफलानुभावकतया विचित्रशक्तीनां कर्मणामेकरूपात् तपसः क्षयानुपपत्तेः, कायसंतापस्य च तपस्त्वाङ्गीकारे भोजनाच्छादनादिवैकल्याद् बाहुल्येन तद्वतां भिक्षाचरादीनामेव तपखिता भवेत् , न योगसमाहितचेतसां परमर्षीणां तादृक्कायक्लेशाभावात् , अथ न कायसंतापमानं तपः, किन्तु | किंचित् तदभावेऽपि क्षयोपशमिककुशलात्मपरिणामरूपं तदिष्यते, तथापि तस्मादपि एकस्वरूपात् न भोगशक्तिकस्य कमेणो विगमः कुतस्त्यः सकलकर्मशक्तिसंकरक्षयाभ्युपगमे वा तस्मात् कथंचिदनायासेन एकरोमोन्मूलनादिना स्तोककर्मक्षयसंभव | निखिलकमेक्षयप्रसङ्गात् , अन्यथा कर्मशक्तिसंकरायोगात , तस्मात तपसा निर्जरा इति प्रवादो ग्राम्यजनधंधीकरणमात्रफल एवंति, अत्रोच्यते-यत्तावदुक्तं कायसंतापमात्रत्वात् नारकादिदुःखवद नास्य तपस्वमिति, तदयुक्तं, तपाखरूपानवबोधात्, नहि कायसंतापमात्र तप इति भगवत्सिद्धान्तः, किं नाम तत्त्वज्ञानप्रशमसंवेगसारं तीर्थकरादिसात्विकसत्त्वानुष्ठितं वैमनस्यवाजत वास्तवपरमानन्दमयं जर्जरितदुर्जरकर्मजालं देहारोग्यकारणं निर्मूलितप्रत्यहं वशीकृतेन्द्रियग्राम परमपदप्रापकं जीवशुभपरिणा
For Private and Personal Use Only