________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
पंचलिंगी
बृह
५ लि.
॥१३२॥
कर्माणि वाऽशुभानीत्यतस्तपोनाम नैरुक्तम्', तच्चानशनादि, तेन तपसा, 'तु: पुनरर्थः, स च भिन्नक्रमः, तेन पापस्थानविरत्या संवरो भवति, निर्जरा पुनस्तपसा, अथवा तुरवधारणे तेन तपसैव निर्जरा, अथवा तपसो निर्जराफलं दृष्टमित्याप्तवचनात् , तत्र निर्जरणं प्रागुपात्तस्य कर्मराशेरेकदेशेन क्षपणं निर्जरा, सत्यपि हेत्वन्तरेषु महाव्रतादिषु तप एव प्रधानं निर्जराङ्गमिति ख्यापनार्थमवधारणम् , अत एव निकाचितकर्मणामपि अनेन क्षपणादुपचारेण तप एव निर्जरा इत्युच्यते, तथा चाप "जम्हा निका-1 इयाण वि कम्माण तवेण होइ निजरणं ॥ तम्हा उवयाराओ तवो इहं निजरा भणिया' तथा, पुद्धिं दुच्चिन्नाणं दुप्पडिकताणं वे इत्ता मुक्खो नत्थि अवेइत्ता तवसा वा झोसइत्तात्ति" इहेति तत्त्वविचारे लोके वा, 'हंदि' इत्युपदर्शने, 'प्रसिद्धा तु' तरवधा-1 |रणे तेन प्रतीतैव प्रमाणोपपन्नव इतियावत् , 'सर्ववादिना प्रायः सकलतीर्थ्यानां, तथा च विश्वामित्रस्त्रिशंकु याजयामास वसिष्ठश्चाधमयोनिजामक्षमालामुपर्येम, तपःप्रभाव एव स तादृशस्तेषां यत एवं विधाः पाप्मानो विलीयन्ते इत्यादयस्तपसः पापविलयनिमित्तत्वप्रतिपादिका न्यायटीकाकृतां वाचस्पतिप्रभृतीनां व्याहृतयस्तथाऽन्येषामपि 'कैवर्तीगर्भसंभूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तसाजातिरकारणम् ॥ १॥ इत्यादयः, 'इतरथा' अन्यथा, तपसो निर्जराहेतुत्वासिद्धावित्यर्थः, तपोविधानं कृच्छ्रचान्द्रायणादि तपस्याचरणां, क्रियां, तपोब्रह्मचर्यादिकर्म मुक्तिहेतुतया वदन्ति, क्रियावादिन आस्तिकास्तेषां 'कथं' केन प्रकारेण युक्तमुपपन्नं स्यात् , तस्य क्लेशमात्रफलत्वप्रसङ्गात् न कथंचिदित्यर्थः, एवमनभ्युपगमेहि तेषां हिंसादिनिबन्धनपापविशुद्धये प्रायश्चित्तविधेस्तत्प्रतिपादकग्रन्थानां च वैयापत्तेः, तपांसि यातनाश्चित्राः, संयमो भोगवञ्चनेत्यादि सोत्पासवचोभिर्नास्तिकानामेव तदकरणाभ्युपगमश्रवणात् , अत्र केचित् वादिनो मधुरस्निग्धभोजनाभिलाषुकतया तपः कर्तुम
R
॥१३२
For Private and Personal Use Only