SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie SOORAONLODSANGACAGAR निरुणद्धि, ततः सूक्ष्मकाययोगेन वादरकाययोगं निरुणद्धि, सत्येव तसिन् सूक्ष्मकाययोगस्य निरोद्धुमशक्यत्वात् , ततश्च सर्ववादरयोगनिरोधानन्तरं सूक्ष्मक्रियमनिवृत्ति तृतीयं शुक्लध्यानं ध्यायन सूक्ष्मकाययोगेन सूक्ष्ममनोवाग्योगौ निरुणद्धि, ततस्तमपि । सूक्ष्मकाययोगमनन्तवीर्येण शरीरादिमात्रसहकारिणा खात्मनैव निरुणद्धि, ततस्तनिरोधानन्तरं समुच्छिन्नक्रियमप्रतिपाति तुरीयं शुक्लध्यानं ध्यायन् स्थूलसूक्ष्मत्रिविधयोगनिरोधात् अयोगिकेवलित्वमासादयन् हस्वपञ्चाक्षरोच्चारणकालमात्रां शैलेश्यवस्था प्रतिपद्यते, तत्र शीलस्य लेश्यायोगपंकविरहितस्य परमप्रकर्षप्राप्तस्य यथाख्यातचारित्रस्य य ईशः खामी अयोगिकेवली तस्य त्रिभागेन खदेहावगाहनायामुदरादिरन्ध्रपूरणात् संकोचितखात्मप्रदेशस्य शीलेशस्य इयं शैलेशी, यद्वा शैलेशो मेरुस्तस्येव निरुद्धसकलयोगस्य भगवतोऽप्रतिपातितया निष्प्रकम्पावस्था सा शैलेशी, तस्यां नैश्वयिकः संवरो भवति, सकलयोगप्रध्वंसाद् बन्धहेतुत्वेन तस्यैव नैरन्तर्येण मुक्तिसाधकतमत्वात् , अत एव आह-यमाच्छैलेश्यवस्थामाविनो निश्चयसंवरादनन्तरोऽव्यवहितो | मोक्षोऽपवर्गो वक्ष्यमाणलक्षणो जायते समुच्छिन्नक्रियाध्यानसहकृतस्यहि निश्चयसंवरस्य चरमक्षणानन्तरं मुक्तिश्रुतेः, यदाह | 'ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिरिति, अत एव तस्य मुक्ति प्रति साधकतमत्वं, कर्तृकर्मादीतरकारकचक्रसमवधाने |ऽपि एतदनन्तरमेव मुक्तिफलसिद्धरनन्तरफलकरणमिति तल्लक्षणस्य अत्रैव उपपादादितिगाथार्थः ॥९१ ॥ सांप्रतं परम्परया | संवरफलरूपं निर्जरातत्त्वं व्याख्यातुमाह तवसा उ निजरा इह हंदि पसिद्धा उ सबवाईणं ॥ इहरा तवो विहाणं किरियावाईण कह जुत्तं ॥ ९२॥ व्याख्या-तप्यन्ते रसादयो धातवोऽशुभानि च कर्मानि अनेनेति तपः, यदुक्तं 'रसासग्मांसमेदोस्थिमजशुक्राण्यनेन तप्यन्ते । For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy