SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir L ५लि. पंचलिंगी मुक्तं सूत्रकृता 'इत्तुच्चिय अत्थि' इत्यादि, तदुपपादकं वचनमितिगाथार्थः ॥९॥ तदेवम् आस्रवतत्त्वं व्याख्याय अधुना बृहद्ध तनिरोधरूपं संवरतत्त्वं व्यवहारनिश्चयनयाभ्यां विवरीतुमुपक्रमते॥१३॥ पावट्ठाणेहितो विरई ववहारसंवरो होइ । निच्छयणएण सेलेसिगाइ जमणंतरो मुक्खो ॥११॥ व्याख्या-पापं कल्मषं, तिष्ठति वसति कार्यतया अमीषु इतिपापस्थानानि, प्राणातिपातादीनि आश्रवद्वाराणि, तेभ्यो ६ विरतिनिवृत्तिर्मनोवाक्कायर्यावज्जीवं तदकरणीयतादिपरिणाम इति यावत् , 'व्यवहारो,' बहिस्तत्त्वनिरूपणाभिप्रायः स्थूलदर्शिज-2 नन्याय इति यावत् , स्थूलदर्शिनो हि समित्यादिमन्तं मुनिमुपलभ्य संवृतोऽयमिति व्यवहरन्ति, तेन संवरण संवरः पापस्थाननिरोधस्तत्संज्ञकं तत्वम् , 'आश्रवनिरोधः संवर' इतिवचनात् , यद्वा संब्रियन्ते निरुध्यन्ते पापस्थानानि अनेन इति संवरः समित्यादिः, सोऽपि हि प्राणातिपातादिसंवृतिहेतुत्वात् संवृतोऽयं मुनिरिति बाह्यलोकव्यवहारादिहेतुत्वात् , नैश्चयिकसम्बरनिमित्त-| त्वाचोपचारेण संवरतत्त्वं व्यपदिश्यते, अत एव संवरहेतूनां समितिगुप्तिधर्मानुपेक्षापरीपहचारित्राणां यथाक्रमं पञ्च त्रिदशन द्वादश द्वाविंशति पञ्चभेदत्वादस्य सप्तपश्चाशद्विधत्वमभिधीयते, यदुक्तं "समिई गुत्ती धम्मो अणुपेहपरीसहा चरित्तं च ॥ सत्तावन भेया पणतिय भेयाइ संवरणे" भवति संपद्यते, 'निश्चयनयेन' तात्त्विकेन अव्यवधानान्मुक्तिकारिणा, अन्तस्तत्वनिरूपलणाभिप्रायेण सूक्ष्मदर्शिजनन्यायेन इति यावत् , 'शैलेशिकायो' शैलेशिनाम्याम् अवस्थायां वर्तमानस्य अयोगिकेवलिनः संवरो | ".सवरा ॥१३॥ भवति इत्यनुषज्यते, कथं पुनरियमवस्था भवति ? इति चेदुच्यते-सयोगिकेवली किल केवलोत्पादानन्तरं जघन्येनान्तर्मुहूर्त्तम् । उत्कर्षेण देशोनां पूर्वकोटी भवोपग्राहिकर्मवशाद् विहृत्य अन्तर्मुहूर्तावशेषायुष्कः प्रथमबादरकाययोगेन वादरमनोवाग्योगी OSAROSAROSAROKARNAS For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy