________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्द्रियार्थप्रतिपादकस्यास्य अविच्छेदाभ्युपगमः, तथाप्यसौ न संगच्छते, वेदस्येव अस्यापि अविच्छेदहतोरपौरुषेयताया भवतापि अनभ्युपगमात् , उपदेशपरम्पराया एव वा तद्धेतुत्वाभ्युपगमे, तथा परम्परयानुवर्तमानानां कुमारसंभवादीनामपि तथात्वप्रसङ्गात् , तसादस्य पौरुषेयत्वमङ्गीकर्त्तव्यं, तथा सति चानित्यतया विच्छेदसंभवे यदि अतीन्द्रियार्थसाक्षात्कारी कश्चित्तदुपदेष्टा नाभ्युपेयेत, तदा तस्य पुनरिदानीमपि अनुवृत्तिः कथं भवेत् , तस्मादनुपदेशपूर्वकोऽपि असौ स्वीकर्त्तव्यः, तथा च नानुपदेशपू-15 | वकत्वविशेषणासिद्धिः, नचोपदेशविशेषणस्य अपौरुषेयत्वेनासिद्धोऽयं हेतुः, अपौरुषेयत्वस्य प्रागेव निषेधात् , नापि अनैकान्ति-15 | कस्तथाविधोपदेशविशेषस्य हेतोरसाक्षात्कारिज्ञानपूर्वकत्वे विपक्षेऽसंभवात् , नापि विरुद्धः साध्यविपर्ययेण असाक्षात्कारिज्ञानपूर्वकत्वेन हेतोरव्याप्तः, ननु भवतु असा तोर्नष्टादिविषयस्य उपदेशविशेषस्य साक्षात्कारिज्ञानप्रभवत्वसिद्धिः प्रमाणान्तरसंवादेन तस्य तदुपपत्तेः, स्वर्गापूर्वदेवतादिविषयस्य तु तस्य कथं तत्सिद्धिः, नित्यातीन्द्रियत्वेन असदादीनां तत्र प्रमाणान्तरसं-18 वादाभावादिति चेन, अनुमानतस्तत्सिद्धेः, तथाहि वर्गाद्यदृष्टार्थगोचर उपदेशविशेषः, साक्षात्कारिज्ञानपूर्वकः, दृष्टार्थेन नष्टादिविषयोपदेशेन सह एककर्तृकत्वाद् , य एवं स एवं यथा तथाविधाऽऽसजनकाद्युपदेशविशेषः, तथा चायं तसाचथा, अविसंवाद्यतीन्द्रियार्थप्रतिपादकत्वाद्वा नष्टादिविषयोपदेशविशेषवत् , नच अविसंवादित्वमसिद्धम् , ऐहिकफलनिरपेक्षत्वेन पारलौ|किकफललिप्सया प्रेक्षावत्प्रवृत्तेरन्यथानुपपन्नत्वेन खर्गादिसिद्ध्या तत्सिद्धेः, हेत्वाभासोद्धारश्चात्रापि प्राग्वद् कर्त्तव्यः, तदेवमनुमानादिप्रमाणतः साक्षात्कृतसूक्ष्मदेशकालादिव्यवहितसकलपदार्थस्य भगवतः सर्वज्ञस्य सिद्ध्या तद्वचःप्रामाण्योपपत्तेः युक्त
CARTA
स एवं यथा तथाविधादत्वमसिद्धम् , ऐहिकफलनिकतव्यः, तदेव-18
For Private and Personal Use Only