________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
त्तिा
*****
॥१३॥
|साक्षात् कृता न वा ? आधश्चेत् तर्हि तत एव तदुपदेशविशेषस्य साक्षात्कारिज्ञानपूर्वकत्वं सिद्धेः, किं लिङ्गपूर्वकत्वकल्पनेन, ६ द्वितीयश्चेत् , कथं तर्हि लिङ्गतोऽपि तत्प्रतिपत्तिः, नहि कचिदपि अदृष्टे लिङ्गिनि लिङ्गदर्शनादपि तदनुमानं, नालिकेरद्विपवा-18 |सिनोऽपि धूमदर्शनाद् अश्यनुमानप्रसङ्गात्, सर्वथा लिंग्यनवधारणे चैतदस्यैव लिङ्ग नान्यस्येति नियन्तुमशक्यत्वात् , अन्यथा |श्रवणात् खर्गापूर्वादिवत् तदवधारणं भविष्यति, तथा च स्वर्गादेः प्रेक्षावत्प्रवृत्तिलक्षणसामान्यतो दृष्टलिङ्गपूर्वकत्वमिव तेषामपि तादृग्लिङ्गपूर्वकत्वं सेत्स्यति ? इति चेन्न, अन्यतः किम् आप्तात् , तद्विपरीताद्वा, आद्यश्चेत् , सिद्धं नः समीहितं साक्षास्कृतकर्मणः क्षीणदोषस्य च पुरुषविशेषस्य आप्तशब्देनाभिधानात् , तथाच साक्षात्कारिज्ञानवत्तयैव तत्सिद्ध्या अतीन्द्रियार्थानां साक्षात्कारिज्ञानविशेषत्वोपपत्तेः किमत्र उपदेशविशेषस्य लिङ्गप्रभवत्वकल्पनया, द्वितीयाचेन्न, तस्य विप्रलम्भकत्वादिना तसात् श्रवणेऽपि तदवधारणानुपपच्या तदसिद्धेः, लिङ्गस्य आश्रयासिद्धिप्रसङ्गात् , तथाच कथं लिङ्गपूर्वकत्वमुपदेशविशेषस्य भवेत् , अपि च लिङ्गस्य सामान्यमात्रानुमापकतया तत्पूर्वकत्वाभ्युपगमे तेन सामान्यरूपतया एव ग्रहोपरागाद्यतीन्द्रियार्थानां परिच्छेदः सात् , नतु दिग्वेलापरिणामफलादिप्रतिनियमेन विशेषरूपतया तसादुपदेशविशेषप्रणायकस्य अलिङ्गम् , अतीन्द्रियार्थगोचरज्ञानमभ्यु-18 | पेतव्यमिति नालिङ्गपूर्वकत्वविशेषणानुपपत्तिः, ननु पूर्वपूर्वतरपुरुषोपदेशपरम्परया अविच्छेदेनाद्य यावदेष उपदेशविशेषोऽनुव
हँति ? इतिचेन्न, एवमनुवृत्त्यभ्युपगमे व्याख्यातृश्रोतणामज्ञानशंसयविपर्ययादिदोषैर्बुद्धिमाद्यविस्मरणादिभिश्च प्रतिक्षणं हीयमानतया यथावदर्थावगमाभावेन एतावता कालेन सर्वथा अस विच्छेद एव स्यात् , अत एव भवदभ्युपेतोऽपौरुषेयत्वस्यापि उपदेशपरम्परामात्रानुवर्तिनो वेदस्य प्रागक्ताज्ञानादिदोषेभ्यः शाखानामुच्छेदः श्रूयते, अपि च भवतु चोपदेशपरम्परया अती
ISRAGUA
॥१३०॥
For Private and Personal Use Only