SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SALMAN (स्वकालेऽपि असदसवनव गृहतस्तज्ज्ञानस्य असदादिज्ञानस्य वा नाप्रामाण्यम् । ननु सिद्ध्यतु एवमव्याहतसर्वविषयज्ञानवान सर्वज्ञस्तथापि तस्य वीतरागवं कथं सिद्धयेत् , परात्मस्थरागादिसाक्षात्कारात् तस्यापि रागादिमत्त्वसंभवादितिचेत् न, नहि परसंगरागाद्यनुभवात् रागादिमत्त्वं, किन्तु स्वात्मसम्बद्धरागाद्यनुभवाद् रागादिमत्त्वं, किं तत्संवेदनात् , इतरथा दम्पत्योः कथं चिनिर्भरसंभोगभङ्गिदर्शनात् कस्यचिन्महामुनेब्रह्मचारिणोऽपि ब्रह्मचर्यभङ्गेन प्रायश्चित्तापत्तेः, वराङ्गनावर्गसंगमाभावात् तत्र संभोगव्यवहाराभावश्चेत् , सोवापि समानोऽन्यत्र मनोदोषात् , तसात् सर्वज्ञवीतरागवयोः समव्याप्तिकत्वेन परस्परसाध्यसाधनतया उभयोरपि सिद्धिः, न वीतरागत्वेऽपि विप्रतिपत्तिः कर्तुमुचिता । नन्वेवमपि परकीयसाधननिराकरणमात्रेण दृढतरसाधकप्रमाणं विना नाद्यापि तत्सिद्धिर्द्रढीयसी ! इति चेत् न, तत्सद्भावात् , तथाहि नष्टमुष्ट्यादिविषयोऽविसंवाद्यलिङ्गानुपदेशपूर्वक उपदेशविशेषः, कस्यचित् तत्साक्षात्कारविशिष्टज्ञानप्रभवः, तथाविधोपदेशविशेषत्वात् , यो य एवं स तत्साक्षात्कारिविशिष्टज्ञानप्रभवो, यथा असदादेलशैत्यमाधुर्याद्युपदेशविशेषः तत्साक्षात्कारिज्ञानप्रभवः, तथाचायं तसात् तथेति, न चात्र पक्षविशेषणमविसंवादित्वमसिद्धं, चूडामण्यादिग्रन्थोपदिष्टानां नष्टमुष्ट्यादीनां तथैव प्रत्यक्षादिना संवाददर्शनात् , कदाचित् विसंवादोऽपि दृश्यत इति चेन्न, सम्यकशास्त्रापरिज्ञानविस्मरणादिभिरेव तस्योपपत्तेः, न चैतावता तस्य विसंवादित्वं, तथात्वे वा प्रायः संवादिनोऽक्षजप्रत्यक्षस्यापि कचित् सामग्रीवैकल्याद् विपर्ययादिरूपतया विसंवादिखेन सर्वत्र तथा प्रसङ्गात् , तसात् सम्यक् तद्विदामविसंवाददर्शनात् सिद्धमेतद्विशेषणम् । ननु अयमुपदेशविशेषो लिङ्गपूर्वको भविष्यति, तत्प्रतिपाद्या हि ग्रहोपरागाद्या अतीन्द्रियार्था लिङ्गैरनुमाय तेन तत्र निबद्धास्ततस्तत्पूर्वकत्वमेव तस्येति चेन्न, तेहि अतीन्द्रियार्थास्तेन कदाचित् | 81 For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy