________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
**USAS CASASHISH
निस्तुपनि सनसमर्थस्यैव तस्याविर्भावाभ्युपगमाद् , यौगपधेनैव तेन सर्वार्थग्रहणं, यदपि युगपद्ग्रहणे द्वितीयादिक्षणेषु तस्य अप्रमाण्यप्रसञ्जनं तदपि न सम्यक, तदाहि धारावाहिज्ञानानामप्रामाण्यप्रसङ्गात्, गृहीतग्राहिलाविशेषात् , अथ तत्र प्रथम ज्ञानगृहीतधर्मेभ्योऽगृहीतधर्मान्तरवत्तया वस्तुनो ग्रहणेन अनधिगतार्थगन्तृतया प्रामाण्यमिष्यते, इह तु प्रथमक्षणे एव अशेपविशेषवत्तया सकलपदार्थानां ग्रहणात् द्वितीयादिक्षणेषु ग्राह्यधर्मान्तराभावेन अधिगतार्थाधिगन्तवेन कथं तत् इतिचेत् ? यत्र | तर्हि धारावाहिज्ञानेषु पूर्वज्ञानगृहीतधर्मेभ्योऽन्यूनानधिकधर्मवत्तया द्वितीयादिज्ञानैरपि वस्तुनो ग्रहणं, तत्र का गतिः, तस्मान्न | गृहीतग्राहितया ज्ञानस्य अप्रामाण्यं, किन्तु अभूतार्थोपधानेन बाधकज्ञानगोचरतया, अपि च गृहीतग्राहिखमपि तज्ज्ञानस्य नास्ति, यत्रहि पूर्वज्ञानगृहीतधर्मविशिष्टस्यैव वस्तुनो द्वितीयादिज्ञानैरपि ग्रहणं, तत्र द्वितीयादिज्ञानानां गृहीतग्राहिता, इह तु "अह सबदवपरिणामभावविण्णत्तिकारणमणं सासयमप्पडिवाई एगविहं केवलं नाण"मित्यार्षप्रामाण्यादेकस्यैव तज्ज्ञानस्य सततमेव सकलधर्मवत्तया समस्तार्थप्रतिभासनखेन कथं सा भवेत् , क्षणभेदेन एकस्यापि तस्य नानाबात् सा भविष्यति इति
चेन्न, एवं हि क्षणभङ्गाऽभ्युपगमेन दत्तः खहस्तः सौगतानां स्यात् , किं च किं सर्वेषामनधिगतलं, प्रमातुर्वा, न प्रथमः, कचित्क| दाचित्केनचित् सर्वस्यैव ग्रहणायोगस्य अर्थस्य अधिगमात् इतरथाऽधुनापि नाधिगम्येत, नानादौ संसारे यन्नाधिगतं तदधिगम्यते इति संभवति, न च सर्वानधिगतोऽयमर्थ इति असर्वविदा ज्ञातुं शक्यते, न द्वितीयः, तस्यापि सर्वथाऽनधिगतखासिद्धेः, यदि नेह जन्मनि तदा जन्मान्तरेऽपि तदधिगमस्स संभवात् , अन्ततः प्रमातृप्रत्यभिज्ञानस्यापि अधिगतार्थगन्तुखेन अप्रामाण्या| पातात्, न च तस्यापि कैश्चित् स्मृतेरिव अप्रामाण्यमभ्युपेयते भवता, तसान भवदुक्तप्रमाणलक्षणेन तज्ज्ञानस्याप्रामाण्यसिद्धिः,
ARSAAR
For Private and Personal Use Only