________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Trade
पंचलिंगी अक्षरस्य केवलज्ञानस्वेत्यर्थः, यथा वा अपवरकान्तःस्थस्य प्रदीपमण्डलस्य वातायनविवरैर्विनिःसृत्वराः प्रभाकरा बहिरपि किं-1
चित् प्रकाशयन्ति, तथा केवलज्ञानमयस्य आत्मपिण्डस्य इन्द्रियजालद्वारेण निर्गत्वरा ज्ञानाङ्कुराः प्रतिनियतान् बहिरानपि ॥१२८॥
गोचरयन्तीति किमनुपपन्नम् । यत्तूक्तं ध्यानाद्यभ्यासादपि कथं तज्ज्ञानस्य परमप्रकर्षों लंघनादेस्तथानुपलब्धेरिति, तदपि अस|ङ्गतं, लंघनं हि औदारिकशरीरादिसहकृतप्रयत्नजन्यं तच्चात्यभ्यस्यमानम् ऊरुजंघादिभङ्गापादनेन वाश्रयव्याघातायैव प्रभवतीति कथम् अभ्यासात्तस्य परमप्रकर्षों भवेत् , तज्ज्ञानं तु शश्वत् स्वरसत एव परमकोटिमध्यासीनमपि आवरणयोगाद् इयचिरं न तथा प्रतिभातं संप्रति तु ध्यानादिसहकारिसाकल्याद् आवरणक्षयेण आधारद्रव्यस्य च नित्यत्वेन तथाभिव्यक्तिमासादयतीति विषमो दृष्टान्तः । ननु तज्ज्ञानं सर्वगोचरमपि कि क्रमेण पदार्थान् साक्षात् कुर्यात् , योगपद्येन वा ? नाद्यः, तद्धि सकलार्थसा-| क्षात्कारसमर्थ न वा ? समर्थ चेद् युगपदेव साक्षात् कुर्वीत समर्थस्य कालक्षेपायोगात् , न चेत् समर्थं तदा क्रमेणापि न साक्षात् कुर्यात् असदादिज्ञानवत् , न च इन्द्रियज्ञानस्येव तस्य शरीरेन्द्रियादिसहकारिसापेक्षतया क्रमेण प्रवृत्तिः, तन्निरपेक्षतयैव तस्य प्रवृत्तिरभ्युपगमात् , किं च क्रमेण तत्प्रवृत्तिरभ्युपगमे पदार्थानामानन्त्यात्, कतिपयपदार्थग्रहणेनैव आयुषः पर्यवसानात् न | सर्वार्थविषयता स्यात् , न द्वितीयः, प्रथमक्षणे एव युगपत् सकलपदार्थग्रहणे द्वितीयादिक्षणेषु गृहीतग्राहितया तस्य अप्रामाण्यापत्तेः, 'अनधिगतार्थगन्तृप्रमाणमिति' वचनात् , प्रथमक्षणे एव सर्वार्थग्रहणात् क्षणान्तरे ज्ञेयाभावेन निर्विषयतया तज्ज्ञानस्य
अज्ञानखप्रसङ्गाचेति चेत् न, यत्तावत् क्रमग्रहणपक्षे दूषणमुक्तं तदयुक्तम् , अनभ्युपगमात् नहि क्रमवत् सहकारिसापेक्षतया 1 तस्य क्रमेण सर्वार्थसाक्षात्कारिखम् असाभिरभ्युपेयते, ध्यानघातिकर्मक्षयाघभिव्यञ्जककारणकलापाद् युगपदेव निःशेषपदार्थ
SUNNECRACKASSES
१२८॥
For Private and Personal Use Only