________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
555554
सरतो वा पुरुषस्य नीलज्ञानानुपरमेण विषयान्तरसंचारो न स्यात् ? इति चेत् न, नहि विवक्षितव्यक्तिरूपतया यावद् द्रव्यभावित्वं ब्रूमः, किन्तु सामान्यरूपतया, यथा ज्ञानजातीयं विना आत्मद्रव्यं कदाचिन्नास्ति ? नतु नीलज्ञानव्यक्तिनान्तरीयक आत्मा इत्युपगमो येन पीतादिविषयान्तरसंचाराभावो नोत्पद्येत, तसान्नासौ क्षणोऽस्ति यत्र तत्तदिन्द्रियात्ममनासयोगात् आत्मनि ज्ञानं नोत्पद्यते, सुषुप्तादीनां तु प्रबलमिद्धाधुपहतान्त:करणतया न स्पष्टखेन तदनुभवः, यद्येवं शब्दस्यापि आकाशविशेषगुणत्वेन ज्ञानवद् यावद् द्रव्यभाविखप्रसङ्गः । न चैवमस्ति सत्येव आश्रये शब्दस्य प्रध्वंसोपलम्भात् ' इति चेत् न, शब्दस्य द्रव्यखेन आकाशगुणत्वासिद्धेः, यथा चैतत् तथा प्रागेव उपपादितं, तदेवम् उक्तन्यायेन आत्मनो ज्ञानस्य भेदाभावेन | कथंचित् तादात्म्यान तत्वभावत्वं हेतुरसिद्धः, एवमपि असिद्धौ आत्मनोऽपि असिद्धिप्रसङ्गात् , खभावाभावे भावस्थापि अस-1 त्वात् , तस्माच्छश्वज्ज्ञानवान् आत्मा, केवलं संसार्यवस्थायां प्रतिनियतेन्द्रियाद्युपांधिसम्बन्धात् प्रबलज्ञानावरणविगमाऽभावाच्च तज्ज्ञानं न सर्व विषयं, जीवन्मुक्ताद्यवस्थायां च सकलावरणविध्वंसात् सर्वविषयम् । ननु संसार्यवस्थायां प्रबलावरणतिमिरतिरोहितत्वाद् आत्मनश्चक्षुष इव प्रतिनियतविषयमपि ज्ञानं न प्राप्नोतीति चेत् ? न, निबिडजलदपटली विलुप्तसूर्यचन्द्राल्पप्रका| शवत् तदुपपत्तेः, चक्षुषो हि अल्पविषयत्वेन अल्पत्वात् तिमिरादिना तदावरणेन तजन्यज्ञानस्य प्रतिबन्धो युज्यते, आत्मनस्तु | महाविपयलेन महत्त्वात् भानुमण्डलवद् दीपप्रकाशमयत्वात् च कर्मपुद्गलैस्तदावरणेऽपि तज्ज्ञानस्य न सर्वथा प्रतिबन्धः, तदंशानां कियताम् अतिरोधानेन इन्द्रियादिद्वाराप्रतिभासात्, एवमनभ्युपगमे जीवस्य अभावापत्तेः, तथा च आगम:-"सबजीवाणं पि अक्खरस्स अणंतभागो निचुग्याडिओ, जइ पुण सोऽपि आवरिजा तेणं जीवो अजीवत्तणं पावेजा" इत्यादि, 'अक्खरस्सत्ति'
For Private and Personal Use Only