________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandit
पंचलिंगी
| बृहद्वृत्तिः ५ लि.
॥१२७॥
SAMSUNGALORL
त्पादाभावेन न यावद्रव्यभाविखं तस्येति चेत् न, तत्राप्यस्फुटाभतया ज्ञानोत्पादाभ्युपगमात् , अन्यथा जागराद्यवस्थायामाद्यज्ञानस्याकर्तृकखेनानुत्पादापत्ते, ज्ञानं ह्यात्मकटकमिष्यते, ज्ञानचिकीपोप्रयत्नादिशालिनश्चात्मन:कर्तृवं गीयते, न च सुषुप्ताद्यवस्थायां भवता ज्ञानमभ्युपगम्यते, येन जागराद्यवस्थायामाद्यज्ञानं प्रत्यात्मनः कर्तृवं स्यात् , तथा च तदभावादुत्तरोत्तरज्ञानाभावेन निरीहं जगत् जायेत, सुषुप्ताद्यवस्थस्य ज्ञानानभ्युपगमे च सुप्तस्यापि स्वप्मज्ञानाभावप्रसङ्गात् , उभयोरपि अवस्थयोरविशेषात् , सुषुप्तादेरात्ममनःसंयोगाभावात् स्वप्नज्ञानासंभवेन सुप्तादेश्च तद्भावात् तत्संभवन तयोर्विशेष इति चेत्, ननु सुषुप्तस्याऽऽत्ममन:संयोगाभावः कुतस्त्यो येन तस्य स्वप्नज्ञानानुत्पादः, तदानीं हृत्पुण्डरीकोदरे निरिन्द्रियात्मप्रदेशे मनसो विलीनत्वात् शरीरावच्छिन्नेनात्मना संयोगाभाव इति चेत्, एवं तर्हि सुषुप्तस्य प्राणापानादि क्रियाणामपि अनुत्पादप्रसङ्गः, आत्ममनःसंयोगाभावात् प्रयत्नानुत्पादेन तदनुपपत्तेः, तसात् सुषुप्ताद्यवस्थायामपि प्राणापानादिदर्शनात् अस्फुटप्रतिभासतया ज्ञानादिसंभवात् , | यावद् द्रव्यभाविखं तस्येति । नन्वेवं सति सुखदुःखादीनामपि तद्विषेशगुणानां यावद् द्रव्यभावित्वेन सततमुत्पादः प्रसज्जेत,
तथा च एकसिन्नेकदैव अयं सुखी दुःखी इत्यादि व्यवहारादयः प्रवर्तेरन् ? इति चेन्न, तेषां ज्ञानभेदत्वेन खसंवेद्यतयैव सुखा| दिव्यवहारादिकारणत्वात् , सुषुप्ताद्यवस्थायां तु प्रबलतरानुभवाभावात् तेषां न संवेद्यता, अत एव दुःखाभावस्थापि वेद्यतयैव पुरुषार्थता प्रवादो न स्वरूपेण, किं पुनर्विधिरूपतयाऽऽहादैकस्वभावतया च सकलपुरुषार्थमू भिषिक्तस्य सुखस्य, इतरथा स्रक्चन्दनाद्यहि कण्टकादिसामग्रीसन्निकर्षात् सुषुप्तमूञ्छितादेरपि अहं सुखी इत्याद्यनुभवप्रसङ्गात् , तसात् यावद् द्रव्यभावित्वेपि सुखादीनां तत्तत्खकारणकलापेन उत्पादात् न शश्वत् तत्संवेदनापत्तिः । ननु तथापि यावद् द्रव्यभावित्वे ज्ञानस्य नीलं पश्यतः
॥१२७॥
For Private and Personal Use Only