SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानस्य सामानाधिकरण्यानुपपत्तेः, न द्वितीयः, तथाले यात्मानो रूपादिभिरिव ज्ञानेनासम्बन्धापातात् अनभ्युपगमाच्च, नहि मीमांसकैरमाभिर्वा गुणगुणिनोरत्यन्तभेद इष्यते, तयोर्भेदाभेदाङ्गीकारात् , तथाचाभेदाभ्युपगमे कथं न तत्वभावखमात्मनः सिछेत् , येऽपि च तयोरत्यन्तं भेदमिच्छन्ति तेषामपि कथमात्मना ज्ञानस्य सम्बन्धः भेदाविशेषाद्रूपादीनामपि तत्सम्बन्धप्रसदूङ्गात् , भेदाविशेषेऽपि समवायात् , ज्ञानस्यैव तत्सम्बन्धो न रूपादीनामिति चेत् न, तस्यापाकृतखात् आस्तां वा तथाऽप्यसौ | ज्ञानस्यात्मना शश्वद्वा स्यात् कदाचिद्वा, नायः, सुषुप्तावस्थायां ज्ञानस्य प्रध्वंसेन भवता तदभावाभ्युपगमात् , भावे वा सुषुप्तखा| सम्भवात् , न द्वितीयः, समवायस्य नित्यवाभ्युपगमात् , अनभ्युपगमे द्रव्यस्य गुणसमवायं विना निर्गुणखापत्तेः, कदाचिदेकतरस्य सम्बन्धिनो ज्ञानस्योत्पादात् कादाचित्कलं तस्येति चेन्न, ज्ञानोत्पादात्प्राक सुषुप्तादावात्मनो द्रव्यखाभावप्रसङ्गात् , निर्गुणस्य द्रव्य स्य कदाचिदप्यसम्भवात् , यदाह-"द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः । क कदा केन किं रूपा दृष्टा मानेन केन वा 3॥१॥" न च ज्ञानाभावेऽपि धर्माधर्मादिविशेषगुणवत्तया तदानीं तस्य द्रव्यख भविष्यतीति वाच्यं, धर्मादीनां बुद्धिमदात्मपूदिवेकलेन बुद्धिमत्त्वाभावे तेषामप्यभावप्रसङ्गेन तद्वत्तयापि तस्य तदानीं द्रव्यत्वासिद्धेः, व्यापकव्यावृत्ती व्याप्यव्यावृत्तेः सर्ववा दिसिद्धनात् , सामान्यगुणैर्गुणवत्वेन तदानीमपि द्रव्यखसिद्ध्यभ्युपगमे वा तस्य दिक्कालसमानतापः, न चैवमस्तितिवाच्यं, तदानीमपि श्वासादिमत्तया तद्वैलक्षण्येन भवतापि तस्याभ्युपगमात् , तसादात्मनि स्वभावसम्बद्धमेव ज्ञानमभ्युपेतव्यम् , एतेन यावद्र्व्यभाविखमपि ज्ञानस्य निरस्तं मन्तव्यं, तथालेहि स्वभावसम्बन्धानुपपत्तेः, मोपपादि किं नश्छिन्नं यावद्र्व्यभाविखे हि ज्ञानस्य सुषुप्तमूर्छिताद्यवस्थानुपपत्तिप्रसङ्गात् , अचेतयन्नेव हि सुषुप्तो मूञ्छितो वेति व्यपदिश्यते तसात्सुषुप्ताद्यवस्थायां ज्ञानो For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy