________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥१२६॥
6456
CARSAASARAMOCRA
व्यक्तिकारणतया तदावारकत्वायोगात , तथापि कथमनादिसहचारिणस्तस्यात्यन्तिको विगम इति चेन्न, ताम्भावनाप्रबन्धा-दाबृहद्धत्तिः काञ्चनमलस्येव वह्वयादिसंयोगात्तस्य तदुपपत्तेः, नहि प्रवाहतोऽनाद्यपि तन्नित्यं निर्हेतुकं येन तस्य विगमो न भवेत् , विग- ५ लि. तमपि वा हेतुमन्तरेणापि पुनः प्रादुर्भवेत् , तद्धेतूनां मिथ्याज्ञानरागादीनां तन्निरासहेतूनां च सम्यग्ज्ञानवैराग्यादीनामविगानेन सर्ववादिनां प्रसिद्धेः, तथा च सम्यगज्ञानाद्यभ्यासान्मिथ्याज्ञानाद्यपगमेन ज्ञानावरणादिप्रध्वंसात्परमप्रकर्षप्राप्तं लोकालोकावभासकं केवलज्ञानमभ्युदेति, नन्वभ्यासादिनाऽपि कथं सर्वज्ञज्ञानस्य परमप्रकर्षावाप्तिर्लङ्घनादावभ्यासादपि तथाऽनुपलम्भात् , न खलु
सुशिक्षितोऽपि कश्चित्सकलमपि गगनमण्डलं लङ्घयितुमलमिति चेन, न खल्वभ्यासात्तज्ज्ञानस्य परमप्रकर्षः किन्तु मानससम्य, होगज्ञानध्यानाभ्यासातिशयात्क्रमेण ज्ञानावरणादिप्रध्वंसेन प्रबलपवनयोगाद् घनपटलाद्यावरणापगमेन सूर्यमण्डलमिव सदेव टू
तदभिव्यज्यते, ननु मानसचाक्षुषादिज्ञानवदसदुत्पद्यते अत एव स्वभावतः सकलार्थग्राहि नित्यज्ञानवतोऽप्यात्मनः संसार्यवस्थायां नियतार्थग्राहकानित्यज्ञानोत्पादस्तदावरणक्षयोपशमशरीरेन्दियादिसम्बन्धनिबन्धन एव, कुतः पुनः स्वरूपेणात्मनो नित्यज्ञानसिद्धिरिति चेत्तत्स्वभावत्वात् , तथा च प्रयोगः-आत्मा स्वरूपेण शश्वज्ज्ञानवान् तत्स्वभावत्वात् , यो यत्स्वभावः स शश्वत्तद्वान् यथोष्णखभावो वह्निः शश्वदौष्ण्यवान् , ज्ञानस्वभावश्चात्मा तस्मात्सोऽपि शश्वत्तद्वानिति, न च कथं खेनैव स्वभावेनासौ तद्वानिति वाच्यम् , आत्मनः कथश्चिज्ज्ञानस्य भेदातद्वत्तोपपत्तेः, आवरणयोगात्तु संसार्यात्मनां सदपि तत्तथा न प्रका- 8 ॥१२६॥ शते, न चात्मनस्तत्वभावत्वमसिद्धमिति वाच्यम् , अतत्स्वभावत्वं ह्यात्मनो ज्ञानस्यानात्मधर्मत्वात्स्यात् आत्मनोऽत्यन्तभेदाद्वा ? न प्रथमः, ज्ञानस्याचेतनधर्मतया प्रायः कैश्चिदप्यनभ्युपगमात् , अभ्युपगमे वा अहं जानामीत्यात्मवाचिनाऽहंशब्देन
ACCESS
For Private and Personal Use Only