SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACCORRESTER पपत्तेः, क्रमेण तावत्पदार्थानामानन्त्येन लिङ्गात्तदनुमितेः कर्तुमशक्यत्वात् , यौगपद्येन च तदनुमित्यभ्युपगमे आनुमानिकज्ञानस्य सामान्यमात्रगोचरत्वेन तद्रूपस्य सर्वज्ञज्ञानस्यापि निखिलपदार्थधर्मग्राहकत्वं न स्यात् , अनुमानस्यैवं स्वभावत्वात् , भावनाभ्यासात्तु सर्वज्ञलैङ्गिकज्ञानस्य सकलधर्मग्रहणाङ्गीकारे सज्ञाऽन्तरेण तस्य साक्षात्कारित्वमभ्युपगतं भवेत् , नापि शाब्दं तत् तदा ह्यभिलाप्यानां भावानामनन्ततमभागस्येव तेन ग्रहणं स्यात् , तस्यैव श्रुतनिबन्धेन तजन्यतज्ज्ञानविषयत्वात् , तथा चोक्तम्-"पण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पन्नवाणिजाणं पुण अणंतभागो सुयनिबद्धो ॥१॥" नन्वनभिलाप्यानामभिलाप्यानामप्यनन्तानां तेषां श्रुतानिबन्धेन तदविषयत्वात् , तदग्रहणाभ्युपगमे वा सर्वज्ञत्वहानेः, तसादिन्द्रि-1 यलिङ्गशब्दजन्यं तज्ज्ञानं नित्यं सर्वविषयं नैश्चयिक प्रत्यक्षं वाऽभ्युपगन्तव्यं, नन्वेवमात्मनो नित्यज्ञानरूपत्वेनासदादिज्ञानस्यापि नित्यत्वाविशेषात्सर्वविषयत्वप्रसङ्ग इति चेन्न, तदावरणापगमानपगमाभ्यां विशेषात् , दृश्यते हि पटलाद्यावरणानावरणाभ्यां चक्षुषः स्वविषयग्रहणं प्रति विशेषस्तद्वदिहापि भविष्यति, अमूर्तेनावारककर्मणा कथममूर्तस्य ज्ञानस्यावरणं ? तथात्वे वाऽऽकाशेनापि तस्यावरणं स्यात् ? इति चेन्न, कर्मणः पौगलिकत्वेनामूर्त्तत्वासिद्धेः, तथा च प्रयोगः-सर्वविषयग्राहकज्ञानस्वभावस्यात्मनः खविषयाग्रहं विशिष्टावारकद्रव्यसम्बन्धपूर्वकं तत्स्वभावस्य सतस्तस्य स्खविषयाग्रहणत्वात् , यदेवं तदेवं यथा स्वविषयग्रहणखभावस्य चक्षुषस्तदग्रहणं पटलाद्यावारकद्रव्यसम्बन्धपूर्वकं तथा चेदं तस्मात्तथेति, यच्च तदावारकं द्रव्यं तज्ज्ञानावरणं कर्मेति, तथापि मूर्तेनापि कथं तस्यावरणं ? वस्त्रशरीराद्यावरणेऽपि ज्ञानानुदयप्रसङ्गादिति चेन्न, विपोपयोगेन मूर्छितस्य चैतन्यहानोपलब्धेः, वस्त्रादेस्तु बाह्यतया साक्षादात्माऽसम्बन्धेन शरीरादेश्च साक्षात्तत्सम्बन्धेऽपि ज्ञानाभि For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy