________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandit
पंचलिंगी
१लि.
धारणे स च द्वादश इत्यत्र योज्यते, तेन द्वादशैव न न्यूनाधिकाः, उदयन्त इतिशेषः, अयमर्थः, सम्यक्त्वं हि चतुर्थे गुणस्थाने | तचेह अनुमातुमिष्टं कषायोपशमेन, तत्रच अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादिचतुष्कभेदात् द्वादशैव कषाया उदयम् | आसादयन्तिः ननु एवं तर्हि सिद्धं नः समीहितं, खरसेनैव अनन्तानुबन्ध्युपशमस्य सिद्धत्वात् लिङ्गखसिद्धेः' इतिचेन्न, तज्ज्ञानस्य मृग्यमानत्वात् , तस्य च अद्यापि अनुपपत्तेः कथमिति चेत् ? उच्यते आत्माधिकरणाः खलु एते कषायाः । स च असदादीनाम् अतीन्द्रियस्तद् अतीन्द्रियत्वे तेषामपि अतीन्द्रियत्वं परमाण्वतीन्द्रियत्वे तद्गतरूपादिवत् । ततो यदि आत्मनि केवला एव अनन्तानुबन्धिनः प्रादुष्युस्ततः केनचित् लिङ्गेन तज्ज्ञानात् , ततः कयाचित् सुसामग्र्या तव्यावृत्या तदुपशमस्यापि कथंचिद् ४ अवगमात् लिङ्गवं सिद्धे नतु एवं, यावता अन्येषामपि द्वादशानां कषायाणं तत्र विद्यमानत्वात् तेभ्यः पार्थक्यम् अनन्तानुबन्धिनां ज्ञातुमिष्टम् । तच्च ज्ञातुं न शक्यते । साजात्यात् । ननु सजातियत्वेऽपि यथा वर्णावयवसंस्थानादिव्यावर्तकधर्मयोगात् शावलेयबाहुलेयादिगोपिण्डानां भेदोऽवधार्यते, तथा इहापि भविष्यति । नच व्यावर्त्तकधर्मयोगोत्र नास्तीति वाच्यं दुष्टानिटपरुषारुन्तुदभाषाप्राणिप्राणप्रहाणनिरपेक्षहिंस्रकादीनां स्वकार्याणाम् इतरकषायेभ्यो व्यावर्त्तकानाम् अनन्तानुबन्धिष्वपि | भावात् ? न, तेषां सादृश्येन व्यावर्तकत्वानुपपत्तेः । अत एव यत्र वर्णसंस्थानानाम् अत्यन्तसाधयं तत्र गवादिपिण्डात् चिरं तन्मैत्रीजुषो गोपालादयोऽपि विवेक्तुम् अपारयन्तो विपर्यस्यन्ति, अत्यन्तसाजात्यं च कषायकार्याणां सूत्रव्याख्यायां भावयिष्यते।। तसाद् उपायाभावेन कषायोपशमज्ञानाभावात् न तल्लिङ्गत्वं प्रतीमः । एतदेवाह-"आइल्लाणेति" आदिमानाम् अनन्तानुबन्धिनाम् इतरकषायेभ्यो विशेषो भेदो वैधर्म्यम् इति यावत् , न दुष्टभाषादिगम्यः, तुरवधारणे, स च भिन्नक्रमो नत्रा संबध्यते,
॥
७
॥
For Private and Personal Use Only