SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie 40-50-4 COLORAMMARGAO पुरुषवदित्यनुमानात् सर्वज्ञाभावः सेत्स्यतीति चेन्न, विवादाध्यासितः पुरुषः सिद्धो नवा ? सिद्धश्चेत्तदा तस्य सर्वज्ञत्वेनैव सिद्धः। परमाणुः सावयवो मूर्तत्वादितिबद्धर्मिग्राहकप्रमाणबाधः, न चेत्सिद्धस्तदाऽऽश्रयासिद्धो हेतुः, तथा सर्वज्ञो न भवतीति साध्ये किं सर्वज्ञतायाः प्रागभावो विवक्षितः ? आहो प्रध्वंसः ? उतान्योन्याभावः ? अत्यन्ताऽभावो वा? नाद्यः, गर्भादिषु सर्वज्ञतायाः प्रागभावस्यामाभिरप्यभ्युपगमात् , कालान्तरे तत्सिद्धिप्रसङ्गाच्च, न द्वितीयः, ज्ञानावरणकर्मविगमजन्मनः शश्वत्सकलपदार्थावभासिनित्यज्ञानवत्तालक्षणायास्तस्याः प्रध्वंसासिद्धेः, न तृतीयः, तस्य प्रतियोगिनिरूपणाधीननिरूपणतया प्रतियोगिसर्वज्ञानभ्युपगमे तदात्मकतानिषेधस्य विवादाध्यासिते कर्तुमशक्यत्वात् , न खलु घटः पटो न भवतीत्यादौ पटाप्रतीतौ तत्तादात्म्यनिषेधो घटे कथश्चित्सङ्गच्छते, प्रतियोगिसर्वज्ञनिरूपणे वा सिद्धं नः समीहितं, न चतुर्थः, सासर्वज्ञखवक्तृखयोः कार्यकारणभावाद्वा, तादात्म्याद्वा, सपक्षे भूयो दर्शनाद्वा, न प्रथमः, सहि धूमाम्योरिव तयोरन्वयव्यतिरेकाभ्यामवसीयेत, Pन चात्रामेरिव धूमोऽसर्वज्ञखस्यान्वयव्यतिरेकावनुविधत्ते वक्तृत्व, विवक्षापूर्वकताल्वादिसंयोगान्वयव्यतिरेकानुविधायिखात्तस्य, न चोत्स्वप्नायितोन्मदादिमतां विवक्षां विनाऽपि वक्तृखदर्शनात् न तदनुविधायिखं तस्येति वाच्यं, जागरावस्थाभाव्यभ्यासतञ्ज| नितसंस्कारपाटवादिनाऽस्पष्टप्रतिभासतया ज्ञानविवक्षाप्रयत्नानां तेषामपि सम्भवात् , अन्यथा प्रयत्न विना कोट्यवायुताल्वादिसंयोगाभावेन वर्णाद्युच्चारणानुपपत्तेः, ज्ञानादीनां च यथोत्तरं पूर्वस्य पूर्वस्य कार्यकारणभावनियमात्, उत्स्वमादिष्वस्पष्ट ज्ञानाद्यनभ्युपगमे च पूर्वाभ्यस्तानामेव वर्णानामुच्चारणनियमाभावप्रसङ्गात् , तन्नान्वयेनासर्वज्ञखवक्तृखयोः कार्यकारणभावावसायः, व्यतिरेकस्तु सर्वज्ञानभ्युपगमे न संभवत्येवेति कथं ततस्तदवसायः स्यात् ?, न द्वितीयः, वृक्षखशिंशपाखयोरिवासर्वज्ञखवच CARRORICA For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy