________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
पंचलिंगी
R
॥१२४||
संभवति, ततोऽर्थापत्या प्रतिनियतविषयव्यवस्थापनेन तयोरविरोध आपाद्यत एवेति तस्याः सार्थकत्वमिति चेन्न, बहिःसत्त्वग्रहे
बृहद्धृतिः सावकाशतया गृहसत्त्वोपनायकस्यानुमानस्य गृहासत्त्वग्रहं विना निरवकाशवेन बलवत्तयाऽभावप्रमाणेन बाधात् , सावकाशानवका-४ शयोरनवकाशो विधिबलीयानिति न्यायातु, एवं च निर्विषयखादापत्तेः कार्थवत्वं भवतु वा कथञ्चित् तथाऽप्यनुमानलक्षणेनाघ्रा-IN तत्वादनुमानमेवेयं, तथा हि-साध्याविनाभाविनो लिङ्गात्साध्यनिश्चायकमनुमानमित्यनुमानस्य, दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत - इत्यर्थान्तरकल्पनेति चार्थापत्तेर्लक्षणम् , अत्र चाविनाभावान्यथानुपपत्तिशब्दयोरर्थान्तरस्यापि चार्थापत्तिकल्पनीयस्य साध्यत्वात्साध्यार्थान्तरशब्दयोरपि पर्यायत्वेनानुमानलक्षणादर्थापत्तिलक्षणस्याभेद इत्यनुमानादर्थापत्तेरभेदः, एवं च जीवतश्चैत्रस्य | दृष्टो गृहाभावो लिङ्गं, स चान्यथा बहिर्भावलिङ्गिनं विनाऽनुपपद्यमानोऽर्थान्तरं बहिर्भावं कल्पयति-गमयतीति जीवतो गृहा|भावेन लिङ्गेनान्यथाऽनुपपद्यमानेन व्याप्तिग्रहपुरस्सर बहिर्भावकल्पनमनुमानमेव, तथा च प्रयोगः-जीवंत्रो पहिरस्ति जीवन-| वत्वे सति गृहेऽनुपलभ्यमानत्वादहमिव, अत्र चानुमाता गृहबहिरवस्थितः सकलं गृहमवलोकयन्नात्मानमुदाहरणीकरोति, जीवतो गृहाभावबहि वयोश्च कृतकत्वानित्यत्ववत्समव्याप्तिकत्वाद्विपर्ययेणापि प्रयोगो द्रष्टव्यः, अत एव लिङ्गवचनस्य हेतोरन्यथाs-18 नुपपत्तिमेव लक्षणं पूर्वमूरयः प्राहुः, अन्यथाऽनुपपन्नत्वं हेतोर्लक्षणमीरितं तथा-"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् । नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ॥१॥" प्रसिद्धानुमानेऽपि च दृष्टः श्रुतो वा पर्वतादौ धूमोऽग्निं विनाऽनुपपद्य-IN मानोऽर्थान्तरमग्निं कल्पयतीत्यर्थापत्तिलक्षणस्यानुमानलक्षणादभेदप्रतीते पत्तिः पृथकप्रमाणं, तदेवमनुमानादिभिः प्रमाणैः सर्वज्ञसिद्धेस्तदभावसाधनमभावप्रमाणं परस्य निरवकाशमेव, ननु विवादाध्यासितः पुरुषः सर्वज्ञो न भवति वक्तृत्वाद् , रथ्य
॥१२४॥
For Private and Personal Use Only