SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie पत्या तमिगत स्यात्, न विनाऽऽगमा लङ्कारविषयत्वात् , यदपि नापत्तितस्तत्सिद्धिरित्यादि तदप्ययुक्तं, सर्वज्ञं विनाऽऽगमप्रामाण्यलक्षणोऽर्थो नोपपद्येत, तथा च | तदुक्तक्रियाखनाश्वासेन कस्यचित्तत्राप्रवृत्याऽन्धमूकं जगत् स्यात्, न चापौरुषेयत्वात्तत्प्रामाण्यमुत्पत्स्यत इति वाच्यं, तस्य प्रागेवापास्तत्वात् , तसात्तत्प्रामाण्यान्यथाऽनुपपच्या तत्सिद्धिरुपपन्ना, यदि वा निर्विषयत्वान्नार्थापत्तिः प्रमाणं तेन न तदधीने सर्वज्ञसिद्ध्यसिद्धी चिन्तामर्हतः, तथा हि विरुद्धयोः प्रमाणयोः स्वस्वविषयस्थापनेनाविरोधापादकतयाऽर्थापत्तेः प्रामाण्यमिष्यते तद्वादिभिः यथा जीवतचैत्रस्य तावदभावप्रमाणेन गृहेऽभावो गृह्यते, अनुमानेन तु जीवन् कचिदस्तीत्यनिर्धारितविषयतया प्रवर्त्तमानेन तत्र चैत्रस्य सचमप्युपनीयते, तदनयोः प्रमाणयोः सत्त्वासवलक्षणविरुद्धार्थोपस्थापकतयैकस्मिन् विषये प्रवर्त्तमानयोर्विरोधोऽर्थापच्याऽनुमानस्य बहिर्भावलक्षणविषयान्तरच्यवस्थापनेनापास्यत इति जैमिनीया अर्थापत्तेः प्रामाण्यं वर्णयन्ति, | तदेतदयुक्तं, कथं हि प्रमाणयोर्विरोधः समसमयतया तुल्यबलत्वेनैकस्मिन् विषये विरुद्धधर्मोपनायकत्वादिति चेन्न, जीवंश्चैत्रो | गृहे नास्तीति गृहाभावग्राहकस्य प्रमाणस्य प्रवृत्यनन्तरं जीवता कचिद्भाव्यमिति सामान्यविषयतया गृहसवोपनायकस्यानुमानस्य प्रवृत्तेः, समसमयत्वाभावात् , तथा च नैश्चयिकतया गृहाभावनिश्चायकेन प्राक् प्रवृत्तेन चाऽभावप्रमाणेन संदिग्धं | गृहसत्त्वमुपनयतः पश्चात्प्रवृत्तस्य चानुमानस्य कथं विरोधः? तुल्यबलयोरेव तद्भावात् , निश्चायकत्वेन चाभावप्रमाणस्य बली| यस्खात्, अनुमानस्य च तेनैव स्वविषयत्याजनेन बहिरेव व्यवस्थापितखात्, न च तदुपनीतयोः सचासत्त्वयोधर्मयोरपि विरोधः यथा क्रम सन्दिग्धनिश्चिततया तयोस्तदसम्भवात् , एवं चानयोर्विरोधाभावात् कथं तदविरोधापादनेनार्थापत्तेः साफल्यं | स्यात् , अथ महाविषयत्वेनाव्याहतप्रवृत्तितयाऽनुमानमभावप्रमाणविषयमपि व्यानोति, न चैकसिन् धर्मिणि विरुद्धधर्मसंसर्गः For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy