________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
५ लि.
॥१२३॥
स्थापातः, सर्वज्ञानां तदागमानां च बीजाङ्कुरवदनादिखाभ्युपगमात् , नाप्युपमानात्तदसिद्धिः, न खल्वगृहीतसमयसञ्ज्ञादिविशेषणान्वितं साधर्म्यज्ञानमेवोपमानं, येनातिदेश्याभावेनोपमानात्तत्सिद्धिर्न स्यात् , यावता यदा केनचित्कुतश्चित्सर्वज्ञप्रवादं निशम्य श्रुतपारदृश्वा स्वीकृतागमप्रामाण्यः कश्चित्कचित् कीदृक् सर्वज्ञः ? इति पृष्टः प्राह-कथमहं समूलकापंकषितरागादिदोषजालं
ज्ञानादिभिर्गुणैः सर्वातिशायिनं भूतभविष्यद्वर्त्तमानसमस्तवस्तुसाक्षात्कारदीक्षितं सत्तमं निखिलमनुजानां सर्वज्ञं वर्णयितुं शक्नो&ामीति, एतदाकर्ण्य प्रष्टा कदाचिद्देशान्तरं गतस्तादृशमेव इतरविलक्षणं पुरुषमवलोक्य नूनमसौ सर्वज्ञ इति प्रत्येति, तदा वैध
येज्ञानमेव तस्योपमानं तस्मादेवाकृतसमयसर्वज्ञसज्ञासञ्जिसम्बन्धप्रतिपत्तेः, अन्यत्रैवं न दृष्टमिति चेन, यदा हि कीदृक् करभः? इति दाक्षिणात्येनानुयुक्त उदीच्यः करमं निन्दन् धिक् करभं लम्बग्रीवं दीर्घजङ्घ कठोरकण्ठकाशिनमपशदं पशूनामित्यादि घूते, तन्निशम्य च दाक्षिणात्य उत्तरापथं गतस्तादृशं पिण्डं निरीक्ष्य नूनमयं करभ इति निश्चिनोति, तदा वैधय॑ज्ञानेनैवास्य करभसञ्ज्ञासमयग्रह इत्यादिवैधयॊपमानोदाहरणस्यान्यत्रापि दर्शनात् , साधर्म्यग्रहणस्य च धर्ममात्रोपलक्षणत्वेन नाव्याप्तिलक्षणदोषः, ननु तादृक्पुरुषविशेषस्य कचिदप्यनुपलम्भात् कथं वैधयॊपमानादपि तत्सिद्धिः ? इति चेन्न, किं सर्वेपामनुपलम्भो भवतो वा? नाद्यः, तस्य सन्दिग्धत्वात् , न द्वितीयः, तस्यानुपलब्धपितृकेण भवतैव व्यभिचारात् , तथा च पठ्यते- "सर्वादृष्टेश्च सन्देहात्, खादृष्टेर्व्यभिचारतः" इति, यद्वाऽतिदेश्याभावेनोपमानोपमेयभावाभावान्नोपमानात्तत्सिद्धिरिति यदुक्तं-तत्तस्य भूषणमेव न दूषणं यतः-"अनन्यसाधारणगौरवश्रीन केवलं मेरुरिवात्र मेरुः । यावत्तमप्यन्वहमुदहन्ती वसुन्धरा भाति वसुन्धरेव ॥१॥" इत्यादिवत्सर्वातिशायित्वेन सकलोपमानातिवृत्ततया तस्य भगवतोऽनन्वया
॥१२३॥
For Private and Personal Use Only