________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
CRUKRABAR
ण्यतीन्द्रिये कर्मखादौ प्रमेयखम् , अन्यच्च साध्यधर्मिणि ऐन्द्रियके गवादौ विशेषे, यदि चात्र प्रमेयखसामान्यस्य हेतुत्वं तदा प्रकृतेऽपि तत्समानम् , अपि च साध्यगतात्प्रमेयखाद् दृष्टान्तगतस्य प्रमेयखस्खान्यादृशदर्शनेन दृष्टान्ते हेतोरसिद्धवाद्यापादनेन प्रत्यवस्थाने भवतः वर्णावय॑समयोरन्यतरापातात् , तथाहि साध्यगतस्य प्रमेयखस्य यदि हेतुत्वमभिमतं तदा पक्षवदृष्टान्तोऽपि साध्यः स्यादितिवर्ण्यसमः, दृष्टान्तगतस्य वा तस्य चेद्धेतुत्वं विवक्षितं तदा दृष्टान्तवत्पक्षोऽप्यसाध्यः स्यादित्यवश्य| समः, तस्मात्साध्यदृष्टान्तयोः प्रमेयखस्यान्यादृशत्वेऽपि प्रमेयत्वसामान्यस्स हेतुत्वे न कश्चिद्दोषः, तदेवं प्रमेयत्वस्य कस्यचित्प्रत्यक्षत्वेनानौपाधिकसम्बन्धसिद्धेर्यदि वर्गादयः कस्यचित्प्रत्यक्षा न भवेयुस्तदा प्रमेया अपि न स्युरिति तर्कसहायेन तेन तेषां कस्यचित् प्रत्यक्षत्वसिद्ध्या सर्वज्ञसिद्धिः, यस्यैव ते प्रत्यक्षास्तस्यैव सर्वज्ञशब्दवाच्यत्वात् , अपि च यथाऽमदादीनामतीन्द्रियार्थदर्शनाभावेऽपि कुतश्चिनिमित्तादुदुद्धप्राम्भवीयसंस्कारणां जातिसरादीनां तदर्शनं, तथा योगजधर्मानुग्रहाच्छुक्लध्यानोदयेन सकलावरणविगमादभिव्यक्तनैसर्गिकनित्यज्ञानः कश्चिद्देशकालस्वभावव्यवहितानपि पदार्थान् द्रक्ष्यति को विरोधः, जातिसरादीनां च भवताऽप्यभ्युपगमात् , यदपि शब्दादपि न तत्सिद्धिरिति प्रत्यपादि, तदपि न सम्यक्, केयं, सिद्धिर्यनिपेधः सर्वज्ञस्याऽऽपाद्यते, किं निष्पत्तिः प्रतीतिर्वा ? नाद्यः, शब्दप्रतिपादितयमनियमादियोगाभ्यासासादितपरमसमाधेर्योगिनो घातिकर्मचतुष्कक्षयेण सर्वज्ञत्वनिष्पत्तेः, न द्वितीयः, शब्दं विना सर्वज्ञविरहिण्यधुनातनकाले एवं धर्मकः सर्वज्ञ इति प्रतीतेरनुपपत्तेः, तसादुभयथाऽपि शब्दात्सर्वज्ञसिद्धिः, न च चक्रकादिदोषप्रसङ्गः, स्वप्रणीतादन्यप्रणीताद्वा शब्दासियभ्युपगमेऽसौ स्यात् , न चैवमत्र पूर्वपूर्वतरसर्वज्ञविरचितागमादुत्तरोत्तरेषां तत्तत्कुशलक्रियाक्रमेण सर्वज्ञत्वसिद्धेरभ्युपगमात्, न चैवमनव
RAAA**
For Private and Personal Use Only