________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandie
परावा? नाथः, कतिपयासदाद्यनुमितिविषयत्वेऽपि पर्वताम्यादेः केषाश्चित प्रत्यक्षत्वात् , न द्वितीयः, तथात्वे स्वर्गादीनां प्रमेयत्वव्या-II | बृहद्वृत्तिः कोपात् , प्रमीयते-यथावनिखिलगुणपर्यायादिमत्तया सकलपदार्थान्तरव्यावृत्ततया च परिच्छिद्यत इति प्रमेयमिति व्युत्पत्तेः,
५लि. ॥१२॥
न च सर्वानुमितिविषयत्वे वर्गादेर्यथावत्परिच्छेद्यत्वं संभवः, अनुमानेन सामान्यरूपतयैव पदार्थानां परिच्छेदात् , न हि चक्षुरादिनेव धूमदर्शनेनापि तार्णाधशेषविशेषवत्तया वढेः प्रतीतिः, एवं रूपं च प्रमेयत्वं तत्तात्पर्यवृत्त्या साध्यं, "सर्वज्ञत्वं च दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेतद्गृध्रानुपासहे ॥१॥ इत्यादि सोत्प्रासं वचः सर्वज्ञवादिनः प्रति व्याहरद्भिर्मीमासकैरप्यनक्षरं स्वीकृतमेव, अत्र ह्यात्मादितत्त्वस्य प्रमेयत्वरूपं साक्षाद्दर्शनं मुमुक्षूणां विधेयतयोपदिष्टं, न चैतदात्मादेस्त्रैलोक्यवतिसकलपदार्थव्यावृत्तता साक्षात्कारं विना, सोऽपि च न निःशेषपदार्थप्रत्यक्षतामन्तरेणोदेतुमर्हति, न च सकलार्थसार्थानां यथावत्संवेदनं विनाऽन्यत्सर्वज्ञत्वं नाम, सर्वानुमेयत्वाभ्युपगमे च स्वर्गादीनामौपचारिकमेव प्रमेयत्वं स्यात् , अस्त्वौपचारिक-18 मेव तदिति चेत् न, मुख्याभावे कचिदपि तस्याप्रवृत्तेः, ननु घटादिष्वसदादिप्रत्यक्षेण मुख्यप्रमेयत्वग्रहणात् स्वर्गादिष्वौपचारिकमपि तदुपपत्स्यते, तथा च न तेन साध्यस्य कस्यचित्प्रत्यक्षत्वस्य सिद्धिः, वास्तवेनैव तेन तस्य संभावनाविषयत्वादिति चेन्न, असर्ववित्प्रत्यक्षेणैकस्यापि वस्तुनः सकलधर्मवत्तया वास्तवप्रमेयत्वस्य ग्रहीतुमशक्यरूपत्वात् , नन्वेवं रूपस्य प्रमेयत्वस्य घटादावमदादीनामसिद्धत्वात् , दृष्टान्तस्य साधन विकलत्वापादकतया कथमस्य हेतुखम् । इति चेन्न, सामान्यरूपतया सिद्धखात्, तस्यैव च सर्वानुमानेषु व्याप्तिविषयतया हेतुत्वेनोपन्यासात् , अन्यथा यदा वैशेषिकादिर्मीमांसके प्रति विशेषस्य शब्दवाच्यता
॥१२॥ साधयन् ब्रूते विशेषोऽभिधेयः प्रमेयखात् सामान्यविशेषवदिति, तदा प्रमेयखाद्विशेषाभिधेयता न सिध्येत् , अन्यद्धि दृष्टान्तधर्मि
For Private and Personal Use Only