________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्र अथात्रापि भूम्यादिवदेव व्यवधायकेनापि पट्टादिना संस्कारकसचिवतया चक्षुषो दर्शनशक्तेरप्रतीपातेन कथश्चित्सम्बन्धान्नि
ध्यादिदर्शनं भविष्यतीति चेत्तर्हि मन्त्राद्युपगृहीतकुमारिकादिनयनेनेन्द्रियसम्बन्धाभावेऽपि देशकालविप्रकृष्टानामर्थानां प्रदीपादौ प्रत्यक्षेण ग्रहणादिति परिहारोऽस्तु, नापि वर्तमानमेव गृह्यते प्रत्यभिज्ञाप्रत्यक्षेण स एवायं यो मया प्राग् दृष्ट इत्याकारेणातीतावस्थाविशिष्टस्याष्यर्थस्य ग्रहणात् , एवमनभ्युपगमे प्रत्यभिज्ञानाभावप्रसङ्गात् , न च विशेष्यस्यैव तत्र ग्रहणं न विशेषणस्येति | साम्प्रतं, विशेषणग्रहणं विना विशेष्यबुद्धेरनुदयात् , न हि कुण्डलाग्रहणे कुण्डलीति बुद्धिः, यत्पुनः स्वर्गापूर्वेत्यादिप्रयोगेऽन्यथासिधुद्भावनं तदपि न युक्तम् , औपाधिकसम्बंधवान् हि हेतुरन्यथासिद्ध उच्यते, न चेन्द्रियसंनिकर्षवत्त्वस्योपाधित्वं युज्यते तल्लक्षणायोगात् , इन्द्रियसनिकर्षवत्वं हि यथा साधनं प्रमेयत्वं न व्याप्नोति, तथा साध्यमपि कस्यचित् प्रत्यक्षवं न व्यामोति, नहि | यत्प्रत्यक्षं तदिन्द्रियसभिकर्षवदिति व्याप्तिरस्ति, अङ्गुष्ठादिविद्यासंस्कृतलोचनस्येन्द्रियसनिकर्षाभावेऽप्यतद्देशातत्कालानामप्यर्थानां प्रत्यक्षखात्, श्वो मे भ्राताऽऽगन्तेत्यादि प्रातिभज्ञानवतोऽपि च तत्सनिकष विनापि भ्रात्रागमनाद्यर्थस्य प्रत्यक्षखात्, साध्यव्यापका चोपाधिर्गीयते, तसात् प्रमेयत्वस्य हेतोः कस्यचित्प्रत्यक्षत्वे साध्ये इन्द्रियसन्निकर्षवत्त्वं नोपाधिः, ननु प्रमेयवेऽपि स्वर्गादीनां कस्यचित् प्रत्यक्षत्वं न भविष्यति विपर्यये बाधकाभावात् , नहि प्रमेयखकस्यचित्प्रत्यक्षखयोर्व्याप्यव्यापकभाव इति चेत् न, विकल्पानुपपत्तेः, तथा हि किमिदं प्रमेयत्वं किं साक्षात्कारिप्रमाविषयखम् ? आहो शाब्दप्रमाविषयत्वम् उतानुमितिप्रमाविषयत्वं न प्रथमः, व्याघातात् , को हि न्यायविदुरः साक्षात्कारिप्रमाविषयाश्च स्वर्गादयो नच कस्यचित्प्रत्यक्षा इति वक्तुमर्हति, न द्वितीयः, शान्दप्रमाविषयाणामपि रूपादीनां चाक्षुषादिप्रमागोचरत्वात् , न तृतीयः, किं कतिपयानामेवानुमितिविषयत्वं सर्वेषां
For Private and Personal Use Only